पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८७६
[मत्वर्थीय
सिद्धान्तकौमुदीसहिता

१८९३ ।। इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा । (५-२-९३)

इन्द्र आत्मा, तस्य लिङ्गं करणेन कर्तुरनुमानात् । इतिकरणं प्रकारार्थम् । इन्द्रेण दुर्जयमिन्द्रियम्

१८९४ । तदुस्यास्त्यस्मिन्निति मतुप् । (५-२-९४)

गावोऽस्यास्मिन्वा सन्ति गोमान् । 'भूमिनिन्दाप्रशंसासु नित्ययोगेऽतिशायने ।

संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः ।।' (वा ३१८३)

१८९५ । रसादिभ्यश्च । (५-२-९५) मतुप् । रसवान् । रूपवान् । अन्यमत्वर्थीयनिवृत्त्यर्थं वचनम् । रस, रूप, वर्ण, गन्ध, स्पर्श, शब्द, स्नेह, भाव, 'गुणात्’ (ग. सू. ११२) ’एकाचः’ (ग. सू. ११३) । स्ववान् । गुणग्रहणं रसादीनां विशेषणम् ।


इत्यर्थः । फलितमाह । अप्रतिकार्यः इति ॥ इन्द्रियम् ॥ इन्द्रलिङ्गमित्याद्यर्थेषु इन्द्रियमिति भवति । इन्द्रशब्दात् यथायोगं षष्ठी । तृतीयान्तात् लिङ्गमित्याद्यर्थेषु घच् निपात्यते इति यावत् । “'इन्द्र आत्मेति । स एतमेव पुरुषं ब्रह्मततमपश्यदिदमदर्शमिति । तस्मादिन्द्रो नामेदंद्रोहवै नाम तमिदंद्रसन्तमिन्द्रमित्याचक्षते” इति श्रुतेरिति भावः । तस्य लिङ्गमिति ॥ आत्मनोऽनुमा पकमित्यर्थः । लिङ्गत्वमुपपादयति। करणेनेति ।। चक्षुरादीन्द्रियाङ्किञ्चित्कर्त्राधिष्ठितम्भवितुमर्हति करणत्वात्, घटकरणदण्डादिवदित्यनुमानादित्यर्थः । मम चक्षुरित्येवमिन्द्रेण दृष्टं ज्ञातमिन्द्रियम् । इन्द्रेण सृष्टमिन्द्रियम् । इन्द्रेण जुष्टं सेवितम्प्रीणितं वा इन्द्रियम् । रूढशब्दोऽयङ्कथञ्चिद्व्युत्पादितः । इन्द्रेण दुर्जयमिन्द्रियमिति साधयितुमाह । इति करणमिति ॥ इतिशब्द इत्यर्थः । तदस्यास्त्यस्मिन्निति मतुप् ॥ तदस्यास्तीति तदस्मिन्नस्तीति विग्रहे अस्तिसमानाधिकरणात्प्रथमान्तात् अस्य अस्मिन्निति चार्थे मतुप् स्यादित्यर्थः । उपावितौ । इतिशब्दो विषयविशेषलाभार्थः। तदाह । भूमनिन्देति ।। श्लोकवार्तिकमिदम् । भूमा बहुत्वम्। यथा गेामान्, यवमान् ।निन्दायां ककुदावर्तिनी कन्या । प्रशंसायां रूपवान् । नित्ययोगे क्षीरिणो वृक्षाः । अतिशायने उदरिणी कन्या । संसर्गे दण्डी छत्री । वृत्तिनियामकः संसर्गविशेषो विवक्षितः । तेन पुरुषी दण्ड इति नास्ति । रसादिभ्यश्च ॥ मतुबिति ।। शेषपूरणमिदम् । उक्तविषये इति शेषः । पूर्वेणैव सिद्धे किमर्थमिदमित्यत आह । अन्यमत्वर्थीयेति ॥ “अत इनिठनौ' इत्यादि निवृत्त्यर्थमित्यर्थः । रसादीन् पठति । रस रूपेत्यादि भावेत्यन्तम् । गुणादिति ॥ एकाच इति ॥ गणसूत्रम् । उदाहरति । स्ववानिति ॥ गुणग्रहणमिति ॥ गुणादित्येतत् रसादीनां