पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
८७५
बालमनोरमा ।

१८८७ । सपूर्वाच्च । (५-२-८७)

कृतपूर्वी कटम्

१८८८ । इष्टादिभ्यश्च । (५-२-८८)

इष्टमनेन इष्टी । अधीती ।

१८८९ । छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि । (५-२-८९)

लोके तु परिपन्थिशब्दो न न्याय्यः ।

१८९० । अनुपद्यन्वेष्टा । (५-२-९०)

अनुपदमन्वेष्टा गवामनुपदी ।

१८९१ । साक्षाद्द्रष्टरि संज्ञायाम् । (५-२-९१)

साक्षाद्द्रष्टा साक्षी ।

१८९२ । क्षेत्रियच् परक्षेत्रे चिकित्स्यः । (५-२-९२)

क्षेत्रियो व्याधिः । शरीरान्तरे चिकित्स्यः । अप्रतिकार्य इत्यर्थः ।


ततश्च पूर्वङ्कृतमनेनेति विग्रहे कृतमित्यादिक्रियाविशेषणात्पूर्वशब्दात् अनेनेत्यर्थे इनिः स्यादित्यर्थः । सपूर्वाच्च । विद्यमानपूर्वादपि पूर्वशब्दादुक्तविषये इनिः स्यादित्यर्थः । पूर्वान्तादिति यावत् । प्रातिपदिकविशेषणत्वेऽपि प्रत्ययविधौ तदन्तविधिप्रतिषेधादन्तग्रहणम्। कृतपूर्वीकटमिति ॥ अत्र यद्वक्तव्यन्तत्कर्तृकर्मणोः कृतीत्यत्रोक्तम् । इष्टादिभ्यश्च ।। इष्टादिभ्यः तृतीयान्तेभ्य अनेनेत्यर्थे इनिः स्यादित्यर्थः । छन्दसि परिपन्थि ।। परिपन्थिन् परिपरिन् एतौ शब्दौ छन्दसि निपात्यते पर्यवस्थातरि वाच्ये । पथैवस्थातृशब्दादिनिप्रत्यये अवस्थातृशब्दस्य पन्थादेशे परिपन्थिन्शब्दः । पर्यवस्थातृशब्दादिनिप्रत्यये अवस्थातृशब्दस्य पर इत्यादेशे परेिपरिन्शब्दः । “माविदन्परिपन्थिनः, मात्वा परिपरीविदत्' इति श्रुतौ उदाहरणम् । इदं सूत्रं वैदिकप्रक्रियायामेव व्याख्यातुमुचितम् । अनुपद्यन्वेष्टा ॥ पदस्य पश्चादनुपदम् । पश्चादर्थे अव्ययीभावः । सप्तम्या अम्भावः । अनुपदमित्यस्मात् अन्वेष्टरि अर्थे इनिप्रत्ययो निपात्यते । साक्षाद्दृष्टरि संज्ञायाम् ।। साक्षादित्यव्ययम्, इह शब्दस्वरूपपरं लुप्तपञ्चमीकन् । साक्षादित्यव्ययात् द्रष्टर्यर्थे इनिः स्यादित्यर्थः । साक्षीति ।। यः कर्मणि स्वयं न व्याप्रियते, किन्तु कर्म क्रियमाणम्पश्यति सोऽयं साक्षीत्युच्यते । साक्षादित्यव्ययादिनिप्रत्ययः ‘अव्ययानाम्भमात्रे' इति टिलोपः । क्षेत्रियच् ॥ परम् अन्यत् क्षेत्रं शरीरं परक्षेत्रम् । चिकित्स्यः प्रतीकार्यः 'किते र्व्याधिप्रतीकारे’ इत्युक्तः । परक्षेत्रशब्दात् सप्तम्यन्तात् चिकित्स्य इत्यर्थे घच्, परशब्दस्य लोपश्च निपात्यते । शरीरान्तरे इति ॥ भाविनि शरीरे चिकित्स्यः, नतु वर्तमाने शरीरे