पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५२
[शैषिक
सिद्धान्तकौमुदीसहिता

१३६४ । राज्ञः क च । (४-२-१४०)

वृद्धत्वाच्छे सिद्धे तत्सन्नियोगेन कादेशमात्रं विधीयते । राजकीयम् ।

१३६५ । वृद्धाद्केकान्तखोपधात । (४-२-१४१)

'अक' इक' एतदन्तात्खोपधाच्च वृद्धाद्देशवाचिनः छः स्यात् । ब्राह्म णको नाम जनपदः यत्र ब्राह्मणा आयुधजावन्नस्तत्र जाता ब्राह्मणकीयः । शाल्मलिकीयः । अयोमुखीयः ।

१३६६ । कन्थापलदनगरग्रामहोत्तरपदात् । (४-२-१४२)

कन्थादिपञ्चकोत्तरपदाद्देशवाचिनो वृद्धाच्छः स्यात् । ठञ्ञिठादे रपवादः । दाक्षिकन्थीयम् । दाक्षिपलदीयम् । दाक्षिनगरीयम् । दाक्षि प्रामीयम् । दाक्षिहृदीयम् ।

१३६७ । पर्वताच । (४-२-१४३)

पर्वतीयः ।

१३६८ । विभाषा मनुष्ये । (४-२-१४४)

मनुष्यभिन्नेऽर्थे पर्वताच्छो वा स्यात् । पक्षेऽण् । पर्वतीयानि-पार्वतानि वा फलानि । “अमनुष्ये' किम् । पर्वतीयो मनुष्यः ।

१३६९ । कृकणपर्णाद्भारद्वाजे । (४-२-१४५)

भारद्वाजदेशवाचिभ्यामाभ्यां छः । कृकणीयम् । पणीयम् । “भारद्वाजे किम् । कार्कणम् । पार्णम् ।

इति चतुर्थस्य द्वितीयः पादः ।


कटनगरो नाम प्राच्यो देशः । राज्ञः क च ।। राजन्शब्दात् छः स्यातू, ककारश्चा न्तादेशः । वृद्धादकेकान्तखोपधात् । ब्राह्मणकीय इति ॥ कोपधाणोऽपवादः छः । शाल्मलिकीय इति ॥ शाल्मलकिर्नाम देशः । तत्र भव इत्यर्थः । इकान्तोदाहरणमिदम् । केोपधाणपवादः । अयोमुखीय इति । “बाहीकग्रामेभ्यश्च' इति ठञ्ञिठोरपवादः छण् । कन्थापलद ॥ ठञ्ञिठादेरपवाद इति । नगरान्ते 'रोपधेतोः' इति वुञोऽपवादः । इतरत्र ‘बाहीकग्रामेभ्यश्च' इति ठञ्ञिठोरपवाद् इति विवेकः । पर्वताञ्च ॥ इत्यादि स्पष्टम् ॥

इति चतुर्थस्य द्वितीयः पादः ।