पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७७३
बालमनोरमा ।

१४६१ । हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः । (४-३-८१)

समादागतं समरूप्यम् । विषमरूप्यम् । पक्षे गहादित्वाच्छः । समीयम् । विषमीयम् । देवदत्तरूप्यम्-देवदत्तम्-देवदत्तीयम् ।

१४६२ । मयट् च । (४-३-८२)

सममयम् । विषममयम् । देवदत्तमयम् ।

१४६३ । प्रभवति । (४-३-८३)

'तत:’ इत्येव । हिमवतः प्रभवति हैमवती गङ्गा ।

१४६४ । विदूराञ्ञ्यः । (४-३-८४)

विदूरात्प्रभवति वैदूर्यो मणिः ।

१४६५ । तद्गच्छति पथिदूतयोः । (४-३-८५)

स्रुघ्नं गच्छति स्रौघ्नः पन्थाः दूतो वा

१४६६ । अभिनिष्क्रामति द्वारम् । (४-३-८६)

'तत्' इत्येव । स्रुघ्नमभिनिष्क्रामति स्रौघ्नं कान्यकुब्जद्वारम् ।

१४६७ । अधिकृस्य कृते ग्रन्थे । (४-३-८७)

'तत्' इत्येव । शारीरकमधिकृत्य कृतो ग्रन्थः शारीरकीय: । 'शारीरकं भाष्यम्' इति त्वभेदोपचारात् ।

१४६८ । शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः । (४-३-८८)


हेतुमनुष्येभ्यः ॥ तत आगत इत्येव । हेतुभ्यः उदाहरति । समादागतमित्यादि । मनुष्यवाचिन उदाहरति । देवदत्तरूप्यमिति ॥ मयट् च । उक्तविषये इति शेषः । प्रभवति । तत इत्येवेति ॥ आगत इति तु निवृत्तम् । प्रभवतीत्यर्थे पञ्चम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । प्रभवः प्रथमं प्रकाशः । हिमवतः प्रभवतीति ॥ हिमवति प्रथमं प्रकाशते इत्यर्थः । 'भुवः प्रभवः' इत्यपादानत्वम् । विदूराञ्ञ्यः । ततः प्रभवतीत्येव । विदूरशब्दो दन्त्यमध्यः । वालवायाख्यदेशपर्यायो विदूरशब्दश्च इति भाष्ये स्पष्टम् । तद्ग- च्छति पथिदूतयोः । गच्छतीत्यर्थे द्वितीयान्तात्प्रत्ययाः स्युः स चेद्गन्ता पन्थाः दूतो वेत्यर्थः । अभिनिष्क्रामति द्वारम् ॥ कान्येति । कन्याकुब्जाख्यजनपदस्य द्वारमित्यर्थः । अधि- कृत्य । तदित्येवेति । अधिकृतो ग्रन्थ इत्यर्थे द्वितीयान्तात्प्रत्ययाः स्युरित्यर्थः । शारी- रकमिति । शरीरस्यायं शारीरः जीवात्मा, तमित्यर्थः । तस्येदमित्यणन्तात् स्वार्थे कः । शारीरकीय इति । वृद्धत्वाच्छः । शिशुक्रन्द । शिशुक्रन्द, यमसभ, द्वन्द्व, इन्द्रजननादि,