पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ]
७६५
बालमनोरमा ।

१४२१ । ग्रीष्मवसन्तादन्यतरस्याम् । (४-३-४६)

पक्षे ऋत्वण् । ग्रैष्मकम्-ग्रैष्मम् । वासन्तकम्-वासन्तम् ।

१४२२ । देयमृणे । (४-३-४७)

’ कालात् ' इत्येव । मासे देयमृणं मासिकम् ।

१४२३ । कलाप्यश्वत्थयवबुसाद्वुन् । (४-३-४८)

यस्मिन्काले मयूराः कलापिनो भवन्ति स उपचारात्कलापी । तत्र देयमृणं कलापकम् । अश्वत्थस्य फलमश्वत्थः । तद्युक्तः कालोऽप्यश्वत्थः । यस्मिन्काले अश्वत्थाः फलान्ति तत्र देयमृणमश्वत्थकम् । यास्मिन्यवबुसमुत्पद्यते तत्र देयमृणं यवबुसकम् ।

१४२४ । ग्रीष्मावरसमाद्वुञ् । (४-३-४९)

ग्रीष्मे देयमृणं ग्रैष्मकम् । आवरसमकम् ।

१४२५ । संवत्सराग्रहायणीभ्यां ठञ्च । (४-३-५०)

चाद्वुञ् । सांवत्सरिकम्-सांवत्सरकम्। आग्रहायणिकम्-आग्रहायणकम्।

१४२६ । व्याहरति मृगः । (४-३-५१)

कालवाचिनः सप्तम्यन्ताच्छब्दायते इत्यर्थे अणादयः स्युः, यो व्याहरति स मृगश्चेन् । निशायां व्याहरति नैशो मृग:—नैशिकः ।


ग्रीष्मवसन्तात् ॥ ग्रीष्मात् वसन्ताच्च सप्तम्यन्तादुप्ते वुञ् वेत्यर्थः । देयमृणे ॥ कालादित्येवेति । तत्रेत्यप्यनुवर्तते । वुञिति निवृत्तम् । सप्तम्यन्तात्कालवाचिनः देयमित्यर्थे यथाविहितम्प्रत्ययाः स्युः । तस्मिन् देयद्रव्ये ऋणे सतीत्यर्थः । मासिकमिति ॥ ‘कालाद्वुञ्' । कलाप्यश्वत्थ ॥कलापिन्, अश्वत्थ, यव, बुस, एभ्यः कालवाचिभ्यः सप्तम्यन्तेभ्यो देयमृणमित्यर्थे वुन् स्यादित्यर्थः । कलापकमिति ॥ वुन् अकादेशः ’नस्तद्धिते’ इति टिलोपः । अश्वत्थस्य फलमश्वत्थ इति । विकारप्रत्ययस्य फले लुगिति भावः । अश्वत्थशब्दस्य प्लक्षादित्वे तु ततः ‘प्लक्षादिभ्योऽण्' इति फले अणो विधानसामर्थ्यात् लुगभावे अश्वत्थशब्द फले लाक्षणिक इति भावः । ग्रीष्मावरसमाद्वञ् ॥ समाशब्दो वत्सरे नित्यस्त्रीलिङ्गबहुवचनः । ग्रीष्म अवरसमा अनयोः समाहारद्वन्द्वात्पञ्चमी । तत्र देयमृणमित्यर्थे आभ्यां वुञित्यर्थः । आवरसमकमिति ॥ अवरासु समासु देयमृणमित्यर्थः । ’तद्धितार्थ’ इति समासः । संवत्सराग्रहायणीभ्यां ठञ् च ॥ देयमृणमित्यर्थे सप्तम्यन्तादिति शेषः । सन्धिवेलादिगणे ’सवत्सरात् फलपर्वणोः' इति पठितम् । तत्र फले देयर्णत्वेन विवक्षिते प्राप्तः अण् अनेन ठञा बाध्यते । व्याहरति मृगः । तत्र कालादित्येव । देयमृणे इति निवृत्तम् ।