पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
५८५
बालमनोरमा

८८८ । सुहृद्दुर्ह्रदौ मित्रामित्रयोः । ५-४-१५०)

सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते । सुहृन्मित्रम् । दुर्ह्रदमित्रः । अन्यत्र सुहृदयः, दुहृदयः ।

८९ । उरःप्रभृतिभ्यः कप् । (५-४-१५१)

व्यूढोरस्कः । प्रियसर्पिष्कः । इह “पुमान्’ “अनङ्वान्' “पयः’ ‘नौः लक्ष्मीः' इत्येकवचनान्तानि पठ्यन्ते । द्विवचनबहुवचनान्तेभ्यस्तु *शेषा द्विभाषा' (सू ८९१) इति विकल्पेन कप् । द्विपुमान्-द्विपुंस्कः । * अर्था न्नञः' (ग १४९) । अनर्थकम् । “नञः' किम् । अपार्थम्-अपार्थकम् ।

८९० । इनः स्त्रियाम् । (५-४-१५२)

बहुदण्डिका नगरी । “ अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्त विधिं प्रयोजयन्ति' (प १७) । बहुवाग्मिका । “स्त्रियाम्' किम् । बहुदण्डी । बहुदण्डिको ग्राम ।


सुहृद्दुर्ह्रदौ । यथासङ्खयमभिप्रेत्योदाहरति । सुहृन्मित्रमिति । सु शोभनं हृदयं यस्येतिं विग्रहः । उरःप्रभृतिभ्यः कप् । बहुव्रीहौ समासान्तः तद्धित इति विशेषः । तद्धितत्वात् ककारस्य नेत्संज्ञा । व्यूढोरस्क इति । व्यूढं विशालम् उरः वक्षः यस्येति विग्रहः । कप् । सोऽपदादौ' इति सत्वम् । प्रियसर्पिष्कः इति । प्रियं सर्पिः यस्येति विग्रहः । कप् ।

  • इणष्षः' इति षत्वम् । ननु द्वौ पुमांसौ यस्य सः द्विपुमानित्यनुपपन्नम् । उरःप्रभृतिषु पुमा

निति पुंस्शब्दस्य पाठादित्यत आह । इहेति । गणे अविभक्तिकानामेव पाठः । इह तु केषां चिदेकवचनान्तानामेव पाठस्तद्विवक्षार्थ इति भावः । द्विपुंस्क इति ॥ 'सम्पुङ्कानाम्' इति सः । अर्थान्नञ इति ॥ गणसूत्रम् । नञx परो योऽर्थशब्दस्तदन्तात् बहुव्रीहेः कप् स्यादिति तदर्थः । अनर्थकमिति ॥ अविद्यमानोऽर्थो यस्येति विग्रहः । अपार्थम्, अपार्थक मिति ॥ अपगतोऽर्थो यस्मादिति विग्रहः । अत्र नञ्पूर्वकत्वाभावात् न नित्यः कबिति भावः । इनः स्त्रियाम् ॥ इन्नन्तात् कप् स्यात् बहुव्रीहावित्यर्थः । बहुदण्डिका नगरीति ॥ दण्डः अस्यास्तीति दण्डी, 'अत इनिठनौ' इति इनिः । बहवः दण्डिनः यस्याम् इति विग्रहः । बहु वाग्मिकेति ॥ वागस्यास्तीति वाग्मी । “वाचो ग्मिनिः' इति ग्मिनिप्रत्ययः । नकारादिकार उच्चारणार्थः । तद्धितत्वात् गकारस्य नेत्संज्ञा, चकारस्य कुत्वम्, जश्त्वम्, वाग्मीति रूपम् । बहवो वाग्मिनो यस्यामिति विग्रहः । अत्रेनः अनर्थकत्वेऽपि “ अनिनस्मन्’ इति वचनात्तदन्त स्याप्यत्र ग्रहणमिति भावः । बहुदण्डी, बहुदण्डिको ग्राम इति । बहवः दण्डिनः