पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
५८१
बालमनोरमा

८७१ । वा संज्ञायाम् । (५-४-१३३)

शतधन्वा-शतधनुः ।

८७२ । जायाया निङ् । (५-४-१३४)

जायान्तस्य बहुव्रीहेर्निङादेशः स्यात् ।

८७३ । लोपो व्योर्वलि । (६-१-६६)

वकारयकारयोलोपः स्याद्वलि । पुंवद्भावः । युवतिर्जाया अस्य युवजानिः ।

८७४ । गन्धस्येदुत्पूतिसुराभिभ्यः । (५-४-१३५)

एभ्या गन्धस्यकारोऽन्तादेशः स्यात् । उद्भन्धिः । पूतिगन्धिः।र् गन्धिः । सुरभिगन्धि । “गन्धस्येत्वे तदेकान्तग्रहणम्' (वा ३३६८) ।


परश्च' इत्यधिकारस्थत्वेऽपि डित्वादन्तादेश इति भावः । द्विधन्वेति ॥ द्वे धनुषी यस्येति विग्रहः । समासे द्विधनुश्शब्दे सकारस्य अनङादेशः । डकार इत् । अकार उच्चारणार्थः । उकारस्य यणिति भावः । शार्ङ्गधन्वेति ॥ श्रृङ्गस्येदं शार्ङ्गं 'तस्येदम्' इत्यण्, तत् धनुर्य स्येति विग्रहः । समासे शार्ङ्गधनुश्शब्दे सकारस्यानङ्, डकार इत्, अकार उच्चारणार्थः उकारस्य यणिति भावः । महिन्नस्तवे 'स्वलावण्याशंसा धृतधनुषम्' इति प्रयोगस्त्वार्षः । वा संज्ञायाम् ॥ ‘धनुषश्च' इत्युक्तः अनङ् संज्ञायां वा स्यादित्यर्थः । शतधन्वेति । शतधन्वा नाम राजविशेषः स्यमन्तकोपाख्याने प्रसिद्धः । जायाया निङ् । आदेश इति ॥

  • प्रत्ययः, परश्च' इत्यधिकारस्थत्वेऽपि ङित्वादन्तादेशोऽयमिति भावः । लोपो व्योर्वलि ॥

व य् अनयोर्द्धन्द्वात् षष्ठीद्विवचनम् । तदाह । वकारयकारयोरिति ॥ पुंवद्भाव इति ॥ स्त्रियाः पुंवत्' इत्यनेनेति शेषः । युवजानिरिति । जायाशब्दे यकारादाकारस्य निङ् । डकार इत्, “लोपो व्योः' इति यकारलोपः । युवतिशब्दस्य पुंवत्वात् तिप्रत्ययस्य निवृत्तिः । नलोप इति भावः । गन्धस्येदुत् ॥ गन्धस्य इत् इति च्छेदः । एभ्य इति ॥ उत्, पूति सु, सुरभि एतेभ्यः इत्यर्थः । इकारोऽन्तादेश इति ॥ पूर्वोत्तरसाहचर्यादिकार आदेश एवेति भावः । समासान्ताधिकारात् “आदेः परस्य’ इति न भवति । उद्भन्धिरिति ॥ उद्रतो गन्धो यस्येति विग्रहः । पूतिगन्धिरिति ॥ पूतिशब्दः असुरभौ । पूतिः गन्धो यस्येति विग्रहः । सुगन्धिरिति ॥ शोभनो गन्धो यस्येति विग्रहः । सुरभिगन्धि रिति । सुराभिः गन्धो यस्येति विग्रहः । सर्वत्र 'वायुः' इति विशेष्यम् । तदेकान्तेति । तस्य विशेष्यभूतद्रव्यस्य एकान्तः एकदेश इव प्रतीयमान इत्यर्थः । अत्र गन्धस्य गुणस्य द्रव्यैकदेशत्वं न युज्यत इत्याशङ्कय एकान्तशब्दः एकदेशशब्दविभक्तलक्षणिक इत्याह । एकान्तः एकदेश इवेति ॥ सुगन्धि पुष्पं सलिलं चेति ॥ अत्र गन्धस्य पुष्पात्