पृष्ठम्:साहित्यसारः.pdf/8

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

3

४, ग्रन्थः

एतत्प्रबन्धविषयकचरितांशज्ञानार्थ ’क्याटलागस् क्याटलगोरम्’ (संस्कृतग्रन्थतत्कर्तृपट्टिका) इति बृहत्कोशो मया व्यलोकेि । तत्र 'साहित्यसार ' नाम्ना त्रयः प्रबन्धा निर्दिष्टाः । तेषु विश्वेश्वरनिर्मितः काव्यरूप एकः । मानसिंहविरचित आलङ्कारिको द्वितीयः । कर्तृनिर्देशरहित आलङ्कारिक एष तृतीयः । अयं सर्वेश्वरीयः साहित्यसारः, अच्युतरायकर्तृकत्वेन लोके प्रचलन् अपरः साहित्यसारश्च कुतस्तत्र कोशे स्थानं नाऽलभतेति स एव कोशघटकः प्रष्टव्यः । ’त्रिवेण्ड्’ नगरस्थराजकीयग्रन्थालयेऽस्य तालपत्रप्रतिकृतिश्चकास्तीति तदीय ’विपुलग्रन्थसूचिकायाः’ प्रतीयते । परं साऽपि चरितविषये भग्नहस्तं प्रादर्शयत् । अत एव चरितांशपरिशोधने सर्वथा सहायशून्याः संपन्ना इत्यावेदितं प्राक् ।

साहित्यसारोऽयं केवलं नाट्यलक्षणात्मकः । लक्ष्यसंगतिरत्र नैवास्ति । संग्रहप्रयोजनकः । ’लसन्मृदुपदावल्या बालव्युत्पत्तिकारणम् । ... ... क्रियते नाट्यलक्षणम् ।’ इत्यनेनेदमेव निवेदितं कविना । अस्मिंश्च षट् प्रकाशा विलसन्ति । तेषु प्रतिपाद्यं यथाक्रममेवं वर्तते :-

प्रथमप्रकाशेः- – नाटकप्रकरणादिविभागः । नाटकलक्षणम् । नान्दी- प्रस्ताक्नादिलक्षणम् । सन्धिसन्ध्यङ्गलक्षणादिकंच ।

द्वितीयप्रकाशेः- भारत्यादिवृत्तयः । तदङ्गानि । पददोषः पञ्च विंशतिः । वाक्यदोषाः षोडश । वाक्यार्थदोषाः सप्त । काव्यगुणा दश । अलंकाराः त्रिंशच्च ।

तृतीयप्रकाशेः– लक्षणानि षट्त्रिंशत् । पात्रसंबोधनादिनियमाश्च ।

चतुर्थप्रकाशेः– नायकनायिकादूत्यादिभेदाः । तल्लक्षणानिच ।

पञ्चमप्रकाशेः- रसभावादिलक्षणानि ।

षष्ठप्रकाशेः-- नाटकप्रकरणादिदशरूपकलक्षणनेि । इति ।