पृष्ठम्:साहित्यसारः.pdf/7

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्



३. काल:

अत्र कांश्चन प्रकारानेव सहृदयानां पुरः प्रदर्शयितुं पारयामः । तथाहि:- ’यस्यागस्त्येश्वराधीशो वामराशिमुनिर्गुरुः, इति वचनेन वामराशिमुनेः कृतिकर्तृगुरुत्वं स्फुटमवभासते किल । वामराशिसमयस्तु निश्चितकल्पः । क्रीस्तुशकस्य १०४५ मान्ते वामराशिरयं तुङ्गभद्राया उत्तरे तटे देवायतनमेकं निरमापयत् । शासनानि च प्रमाणभूतान्युपलब्धानि । अतः सर्वेश्वरः क्रीस्तोः परमेकादशशतकान्ते बन्धममुं व्यररचत” इति श्रीरामकृष्णकवीनामभिसन्धिः ।

स्यादेतत् । उक्तसंवादि शासनमेकं सम्यक् परिशीलनेन अभिज्ञातम् । ’कोळूर' शासनमिति तस्य नाम । कर्णाटभाषामयं तत् । तच्च ’एपिग्राफिया इण्डिका' इतिग्रन्थस्य (A Journal of Epigraphy) एकोनविंशतितमे संपुटे १८० पार्श्वे प्रकाशितम् । तत्र 'वामराशिदेव' इत्ययं 'यमनियमध्यान- धारणमौनानुष्ठानपरायणे' त्यादिबिरुदविशिष्टः स्तुतो दृश्यते । परं - हन्त –भाति कश्चन विसंवादोऽपि । अस्मदपेक्षितो वामराशिमुनिः । तत्रत्यो वामराशिदेवः । उभावभिन्नौ यदि तर्हि युक्त संपद्येत । तथा निश्चेतुं न दृढमस्ति प्रमाणम्। अन्यच्च । 'कोळूर’ ग्रामः तुङ्गभद्रायाः पश्चिमतीरे नोत्तर इति बाढं ज्ञायते । किंच । शासने शिष्यो मल्लिकार्जुनभट्ट उल्लिखितः| नाऽयमंशः प्रकृतमर्थं पुष्णाति ।

केचिदेवमाशेरते। सर्वेश्वरः क्रीस्तोः परं चतुर्दशशतके जिजीव । कन्याकुमार्यग्रसमीपे (Near Cape Comorin) तस्य निवास आसीत् । 'काव्यसार' इति ग्रन्थान्तरमप्यनेन विरचितम्" इति । प्रायेण मलबारीयोप- ज्ञोऽयं कल्पः । अत्राऽपि परिपोषकाणि प्रमणानि नैवोपलभ्यन्ते ।

सत्येवं “भरतर्कोहव्यतिरिक्तालङ्कारिकान्तराननुकीर्तनम्, त्रिंशदलङ्कारपरि- मभनम्, लक्षणादरः, विभ्रमाख्यव्यभिचारिणो विलक्षणस्वरूपप्रदर्शनमित्यादि- अन्यस्यांशैः केवलैरयमतीव प्राचीनो भामहदण्डिनोरनन्तरवर्तीत्यप्यनुमातुं शक्यत’ इति मामकीनः कल्पोऽपि प्रमाणान्तरनिरालम्बां न्यस्यते कुतूहलाय । अपरोऽप्ये- तादृश आप्रच्छतु । सर्वत्राऽपि संभावनैव । दार्ढ्यंतु न कस्याऽपि पक्षाघातुं शक्येत । भवतु । निश्चयपर्यन्तं संशय एव हि शरणम् ॥