चिन्ता
सर्वैस्सर्वत्र निर्दिष्टा चिन्ता ध्यानैकतानता ।
इष्टनाशादनिष्टस्य संपदो वा तदुद्भवः ॥ १९ ॥
तत्र स्युश्चित्तवैक्लव्यं तापनिश्वासनिर्गमाः ।
ईर्ष्या
परोत्कर्षाक्षमासूया कल्पनीया मनीषिभिः ॥ २० ॥
गर्वदौर्जन्यमन्युभ्यस्सातु सञ्जायते नृणाम् ।
दोषोक्त्यवज्ञाभ्रुकुटीतर्जनानि भवन्ति हि ॥ २१ ॥
मदः
हर्षोत्कर्षो मदः प्रोक्तस्सर्वेषामिह देहिनाम् ।
अभीष्टप्राप्तिसंभोगपानादिभ्यस्तदुद्भवः ॥ २२ ॥
स्खलदङ्गवचोमुद्रागतयस्संभवन्ति हि ।
मोह:
मोहो विचित्तताज्ञेया देहवैवर्ण्यकारिणी ॥ २३ ॥
तस्यापि संभवो भीतिदुःखावेशानुचिन्तनैः ।
तत्राज्ञानभ्रमावातघूर्णनादर्शनादयः ॥ २४ ।
मतिः
मतिस्तत्त्वगता बुद्धिरदुष्टा शिष्टसम्मता।
सापि निष्पद्यते लोके शास्त्रादेस्तत्त्वसंपदा ॥ २५ ॥
तत्राभान्ति गुणोत्कर्षसदसच्चिन्तनादयः ।
श्रमः
स्वेदस्सर्वाङ्गविश्रान्तः श्रम इत्यभिधीयते ॥ २६ ॥
अस्विन्न विस्युरङ्गेषु स्वेदसम्मर्दनादयः ।
शङ्का
अनर्थादौ समुत्पन्ने शङ्का स्यात्प्रतिभादयः ॥ २७ ॥
पृष्ठम्:साहित्यसारः.pdf/52
पुटमेतत् सुपुष्टितम्
४३
पञ्चम: प्रकाशः