अश्रु वैस्वर्यमित्यष्टौ सात्त्विकाः परिकीर्तिताः ।
स्तम्भस्तु निष्क्रियाङ्गत्वं प्रलयो नष्टसंज्ञता ।। ९ ।।
रोमाञ्चो रोमनिर्भेदस्स्वेदस्सीकरनिर्गमः ।
वैवर्ण्य वर्णनाशस्स्याद्वेपथुर्गात्रकम्पनम् ।। १० ।।
अश्रु नेत्राम्बु वैस्वर्य विस्वरत्वमुदाहृतम् ।
नाटकादिष्विमे दोषा नाट्यतत्त्वविचक्षणैः ॥ ११ ॥
सत्त्वादेव समुत्पत्तेस्सात्त्विका इति संज्ञिताः ।
व्यभिचारिण:
सविशेषाभिमुख्येन स्थायिनोऽन्तश्चरन्ति ये ।। १२ ।
सम्यगुन्मग्ननिर्मग्नास्ते मता व्यभिचारिणः ।
निर्वेदम्लानिचिन्तेर्ष्यामदमोहमतिश्रमाः ।। १३ ।।
शङ्काधृतिस्मृतिव्याधिवितर्कोन्माददीनता: ।
आवेगालसतात्रासव्रीडामर्षोग्रतास्मयाः ॥ १४ ॥
जडता मरणं स्वप्नविषादौत्सुक्यविभ्रमाः ।
अपस्मारावहित्थान्ध्यप्रबोधप्रीतयस्तथा ।। १५ ।।
त्रयस्त्रिंशदिमे भावा विज्ञेया व्यभिचारिणः ।
निर्वेदः
सर्वलोकप्रसिद्धोऽसौ निर्वेदः स्वेदमाननम् ॥ १६ ॥
तत्त्वज्ञानवदीर्ष्यादेस्तदुत्पत्तिर्हि दृश्यते ।
ग्लानिः
ग्लनिश्शरीरवैवश्यं कथ्यते सर्वकोविदैः ।। १७ ।।
उत्पाद्यते तत्सर्वत्र क्षुत्पिपासारतिश्चमैः ।
भवेयुस्तत्र वैवर्ण्यकम्पानुत्साहविक्रियाः ॥ १८ ॥
पृष्ठम्:साहित्यसारः.pdf/51
पुटमेतत् सुपुष्टितम्
४२
साहित्यसारे