पृष्ठम्:साहित्यसारः.pdf/42

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३३
चतुर्थः प्रकाशः


मोहान्तसुरतोल्लासा कोपे किञ्चिद्विकत्थना ।
मध्या धीरेतरा बद्धाक्षरा गद्गदभाषिणी ॥ १० ॥

कृतापराधं दयितं सखीनां ताडयेत्पुरः ।
धीरा मध्या त्वधीरेति प्रगल्भाऽपि त्रिधा भवेत् ॥ ११ ॥

धीरा प्रगल्भा सक्रोधा सोल्लासेनैव चक्षुषा ।
सापराधं प्रियं दृष्ट्वा सा बहिस्सादरा भवेत् ॥ १२ ॥

प्रगल्भा स्वयमुद्भिन्नमन्मथोन्मादमन्थरा ।
सुरतालापलीलायामप्यत्यर्थविचेतना ॥ १३ ॥

विलीयमानेवाभाति दयितालोकने मुदा ।
कोपे मधुरसस्यन्दिवक्रोक्त्या खेदयेत्प्रियम् ॥ १४ ॥

धीरेतरा प्रगल्भा तु कुपिता मदमन्थरम् ।
प्रियं प्रत्यप्रियं वक्ति गम्भीरमधुराक्षरम् ॥ १५ ॥

मध्याप्रगल्भाभेदानां प्रत्येकं भरतादिभिः ।
ज्येष्ठाकनिष्ठाभेदेन द्वादशैताः प्रकीर्तिताः ॥ १६ ॥

अन्याधीनतया काव्येष्वन्योढा कन्यका मता।
नान्योढा कथ्यते क्वापि रससङ्गिकवीश्वरैः ॥ १७ ॥

कुर्यादङ्गानि संबन्धं कन्यका मदनोदया।
अन्योढाचरितं क्वापि जनहासाय विन्यसेत् ॥ १८ ॥

कलासु कुशला धूर्ता सम्मानगणिका स्मृता ।
नात्र तद्विस्तरोऽस्माभिरन्यत्र कृतिरूढितः ॥ १९ ॥

अष्टविधनायिका



आसामवस्थाः शास्त्रोक्ता भवन्त्यष्टौ मनोहराः ।
उत्कण्ठिता विप्रकठधा खण्डिता प्रोक्तिप्रिया ॥ २० ॥
5