पृष्ठम्:साहित्यसारः.pdf/39

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्


३०
साहित्यसारे


सा राजपुरुषैर्मुख्यैस्स्वामिनीति निगद्यते ।
मनसा चिन्तयित्वाऽर्थं हस्तविन्यस्तमस्तकः ॥ ५७ ॥

भूयशो यद्वदेदन्तः तदात्मगतमुच्यते ।
कान्तेति नायको ब्रूते दक्षिणः पूर्ववल्लभाम् ॥ ५८ ॥

स स्वस्यानभिप्रेतां प्रियेति वदति स्त्रियम् ।
नाटकादिषु सर्वत्र विटस्सर्वाङ्गनां प्रति ॥ ५९ ।।

हे मञ्जुभाषिणीत्येव वदत्यधिकबुद्धिमान् ।
वणिक्पुरोहितामात्यविटविप्रविदूषकाः ॥ ६० ॥

कथ्यन्ते मध्यमैः पात्रैरार्यशव्देन सर्वदा ।
स्वप्रधानादिभिर्भृषो देव इत्यभिधीयते ।। ६१ ।।

विभुशब्देन वक्तव्या देशाधिपतयो द्विजाः ।
ज्येष्ठापाध्यायपितृभिरन्यैरपि च तत्समैः ।। ६२ ।।

वत्स इत्येव वक्तव्यास्त्रैवर्णिककुमारकाः ।
रथी सारथिशब्देन स्वसूतं वक्ति नाटके ।। ६३ ।।

सूत इत्येव वा क्वापि नान्यथा कथनक्रमः ।
राजकीयैर्जनैस्सर्वा महीपप्रियनन्दनाः ।। ६४ ।।

दारिकेत्येव वक्तव्या राजपूर्व कुलाधिकाः ।
सर्वत्र हीनसंबुद्धौ हण्ड इत्यभिधीयते ।। ६५ ।।

सर्वविद्यासु कुशलः सर्वाश्रमपदेश्वरः ।
मुनिः कुलपतिस्सर्वैर्वक्तव्यो नाटकाश्रितः ।। ६६ ।।

वद्देति विनयाभावे नीचपात्रे प्रयुज्यते ।
विद्याधरी तु कान्तेन सौदामन्यभिधीयते ।। ६७ ॥

सावज्ञमङ्गीकरणे तद्ज्ञैरामेति कथ्यते ।
आह्वानं कुर्वतेऽन्योन्यं धूता नाम्नैव केवलम् ॥ ६८ ।।