चमूपरिबृढामात्यजनतामण्डलेश्वरैः ।
स्वामीति विजयोल्लासी चक्रवर्ती निगद्यते ।। ४५ ।।
समस्तख्यातसाहित्यसारनिष्णातमानसः ।
विचारचतुरः प्राज्ञो रसिको भावुकस्स्मृतः ॥ ४६ ।।
विरहोन्मादनूर्छायामीर्ष्यायां वाऽङ्गनाजनैः ।
ऊ इत्येवानभिव्यक्तं वक्तव्यं नाटकादिषु ॥ ४७ ॥
उदात्तजातिविख्यातदेवब्राह्मणलिङ्गिभिः ।
नृपतिर्नाटकगतो राजन्नित्येव कथ्यते ।। ४८ ॥
नटेन नाटके सूत्री भाव इत्यभिधीयते ।
सर्वाश्रमगतो वर्णी वा वर्णव्यञ्जनो जनः ॥ ४९ ॥
रङ्गे रङ्गगतैः पात्रैः भगवन्निति कथ्यते ।
पीठमर्दशठक्रूरधूर्तचेटीविटादिभिः ।। ५० ।।
निन्दायामथवा गर्वे ईशब्दः संप्रयुज्यते ।
विद्याविनयसंपन्नो द्विजन्मा नाट्यकोविदैः ॥ ५१ ॥
नाम्ना सहैव सम्बुद्धौ हे शर्मन्निति कथ्यते ।
यदृच्छाधिगमे प्रायो दुर्भगस्येह वस्तुनः ॥ ५२ ॥
नायिका वक्ति सन्तेषान्नित्यं मंमह इत्यथम् ।
या रण्डा वर्णिपाषण्डैब्श्चण्डालैर्वा विनाशिता ।। ५३ ।।
नाटके नाट्यशास्रज्ञैः सा पण्डी( वण्डे?)त्यभिधीयते ।
येन केनापि मान्येन प्रार्थ्यमानस्य वस्तुनः ॥ ५४ ॥
सहसा ज्ञानसंपर्कादा इत्याष्ठैर्निगद्यते ।
या राजपुत्री निश्शेषविख्यातजनवन्दिता ॥ ५५ ।॥
राजस्त्रिया समायुक्ता सा कन्या भर्तृदारिका ।
सिंहासनाधिरूढा या पट्टोल्लासिल टिका ॥ ५६ ॥
पृष्ठम्:साहित्यसारः.pdf/38
पुटमेतत् सुपुष्टितम्
२९
तृतीयः प्रकाशः