पृष्ठम्:साहित्यसारः.pdf/26

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्


१७
द्वितीयः प्रकाशः

 
उक्तिश्चातुर्यरहिता ग्राम्यमित्यभिधीयते ।
असङ्गताभिः संयोगि व्याकीर्णं स्याद्विभक्तिभिः ॥ ७२

प्रारब्धरीतिविच्छेदो यत्र तद्भग्नरीतिकम् ।
यतिभङ्गेन संयुक्तं यतिभङ्गाश्रयं विदुः ॥ ७३ ॥

यस्यापरिसमाप्तिस्स्यान्न्यूनमिति कथ्यते।
अपर्याप्ततया ह्मर्थो यत्रैकः पर्यवस्यति ॥ ७४ ॥

पदानामिह तद्वाक्यमधिकं कथ्यते बुधै:।
अत्यर्थसङ्गतार्थत्वाद्वाक्यं वाक्यान्तरास्थितम् ॥ ७५ ॥

दु:खेन ज्ञापनीयार्थं वाक्यं गर्भितमुच्यते ।
विरुद्धसन्धिर्ग्राम्यादिः प्रस्तुतार्थस्य घातकः ॥ ७६ ।।

कृच्छ्रार्थकमिह ख्यातमौदार्यस्य विपर्ययः ।
नार्थं विवक्षितं वक्ति यत्तदाहुरवाचकम् ॥ ७७ ॥

एते वाक्यगता दोषा वाक्यार्थस्य वदाम्यहम् ।
औचित्यभङ्गस्सन्देहो रीतिभङ्गः क्रमच्युतिः ॥ ७८ ॥

उपक्रमोपसंहारविषमं दुष्टभूषणम् ।
दुष्प्रतीतिकरं चेति सप्त वाक्यार्थसंश्रयाः ॥ ७९ ॥

औचित्यभङ्गो विज्ञेयः स्वात्मप्रख्यापनादिकः ।
सन्देहः पदजातस्य सन्दिग्धार्थत्वमुच्यते ॥ ८० ॥

प्रारब्धस्यान्यथाभावो रीतिभङ्ग उदाहृतः ।
अपक्रमाभिधेयत्वं क्रमच्युतिरिति स्मृतम् ॥ ८१ ॥

उपक्रमोपसंहारविषमं वाच्यवक्रता ।
भिन्नलिङ्गोपमादीनि दुष्टभूषणमुच्यते ॥ ८२ ॥

सभ्येतरस्य स्पष्टोक्तिर्ग्राम्यमित्यभिधीयते ।
श्लेषः प्रसादस्समतां माधुर्यं सुकुमारता ॥ ८३ ॥