पृष्ठम्:साहित्यसारः.pdf/24

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५
द्वितीयः प्रकाशः

कथ्यते रूढिरहितं पदमस्मद्विधैरिह ।
शास्त्रमत्राप्रसिद्ध्यैव प्रबन्धे यन्निरूप्यते ।। ४८ ॥

तदाहुरप्रतीताख्यं पदं पदविचारकाः ।
अर्थान्तरे सुप्रसिद्धं यदन्यत्रापि साध्यते ॥ ४९ ।।

व्युत्पत्तिभ्रान्तिसंयोगात्तदवाचकमुच्यते ।
स्वबुद्ध्या कल्पितार्थं यत्तत्पदं क्लिष्टमुच्यते ॥ ५० ॥

विचारपारुष्यवशात्स्वसौभाग्यविवर्जितम् ।
यत्पदं तत्तु विद्वद्भिर्म्लानमित्यभिधीयते ॥ ५१ ॥

यत्र सन्दृश्यतेऽत्यर्थपदे तुच्छाभिधेयता ।
तदपुष्टार्थमित्याहुः सर्वे साहित्यवेदिनः ॥ ५२ ॥

शब्दशास्त्रविरुद्धं च प्रबन्धे प्रतिपाद्यते ।
शब्दतत्त्वविशेषज्ञैस्तदसाधु निगद्यते ।। ५३ ॥

यदुक्तमन्यथा काव्ये कवीनां समयोऽन्यथा ।
तदेव सम्यगस्माभिः समयच्युतमुच्यते ॥ ५४ ॥

यस्यासमर्थतात्पर्यमिष्टस्यार्थस्य सूचने ।
अक्षमार्थान्तरं तत्तु कथ्यते कविपुङ्गवैः ॥ ५५ ।।

दुरुच्चारतया काव्ये यदश्राव्याक्षरं पदम् । ।
तदत्र सुकविव्रातैः कष्टमित्यभिधीयते ॥ ५६ ॥

लेशेनापि प्रबन्धेषु सुप्रसिद्धं न यत्पदम् ।
तदप्रयुक्तमित्याहुः सर्वे साहित्यवेदिनः ॥ ५७ ॥

वक्तव्यार्थमतिक्रम्य यदन्यत्रापि वर्तते ।
तदत्र लक्षणेऽस्माभिः ससंशयमुदाहृतम् ॥ ५८ ॥


अर्थान्तरं विरुद्धं स्याद्यत्र प्रस्तुतवस्तुनः ।
विरुद्धार्थान्तरं प्रोक्तं तदत्र निपुणाशयैः ॥ ५९ ॥