पृष्ठम्:साहित्यसारः.pdf/23

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४
साहित्यसारे


वस्तुभिः कल्पनायोगस्तत्र संक्षिप्तका भवेत् ।
सम्फेटस्तु समाघातः क्रोधसंरंभयोर्द्वयोः ॥ ३६ ॥


मायासंस्थापितं वस्तु वस्तुस्थापनमिष्यते ।
यापनन्त्वत्र निष्कामप्रवेशात्रासविद्रवाः ॥ ३७ ।।

 
पदे वाक्ये च वाक्यार्थे दोषाः स्युः काव्यसंश्रयाः ।
तत्र पूर्वं पदगता: कथ्यन्ते सहलक्षणैः ॥ ३८ ॥

 
सम्बन्धहीनं दुर्बोधमप्रसिद्धमनर्थकम् ।
गूढार्थं रूढिरहितमप्रतीतमवाचकम् ॥ ३९ ॥

क्लिष्टमानमपुष्टार्थमसाधु सभयच्युतम् ।
अक्षमार्थान्तरं कष्टमप्रयुक्तं ससंशयम् ।। ४० ।।

विरुद्धार्थान्तरं भ्रष्टमपार्थं ग्राभ्यमस्तुतम् ।
पर्यायज्ञापकं दृश्यमसंभाव्यार्थसाघकम् ।। ४१ ॥

इत्येवं पदसंबन्धा दोषाः स्युः पञ्चविंशतिः ।
संबन्धे रूपमन्यस्य पदमन्यस्य यत्कृतम् ।। ४२ ||


संबन्धहीनमस्माभिस्तदेव हि निगद्यते ।
श्रवणव्यतिरेकेण यस्यार्थो न प्रतीयते ॥ ४३ओ ॥

काव्यतत्त्वविशेषज्ञैः दुर्बोधं तदुदाहृतम् ।
शब्दशास्त्रविरोधित्वान्मोहाद्वा क्वापि यत्पदम् ॥ ४४ ॥


येन केनापि कथितमप्रसिद्धमुदाहृतम् ।
यदसत्कविना काव्ये पादपूरणमिच्छता ॥ ४५ ॥


क्रियतेऽर्थेन रहितं तत्पदं स्यादनर्थकम् ।
नितरामप्रसिद्धेऽर्थे बह्वर्थं यत्पदं कृतम् ॥ ४६ ॥


तदत्र काव्यतत्त्वज्ञाः गूढार्थं कवयो विदुः ।
सम्यगाच्छादितेष्वर्थेष्वप्रसिद्ध्या निरूपितम् ॥ ४७ ॥