पृष्ठम्:साहित्यसारः.pdf/18

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रथमः प्रकाशः


द्रवोऽवमर्शसंभूता गुरुवर्गतिरस्कृतिः ।
क्षमा तिरस्कृतो रोषः शक्तिरित्यभिधीयते ॥ ९५ ।।

शत्रुभिः क्रियमाणे द्वे तर्जनोद्वेजने द्युतिः।
अन्येषां पितरः प्रीत्या प्रसङ्गो गुरुकीर्तनम् ॥ ९६ ॥

छलनं प्राहुरन्ये तु क्रियमाणावधीरणम्।
व्यवसायः स्वशक्तयुक्तिः पुरतः कस्यचित्कृता ।। ९७ ।।

प्ररोचना स्यात्फणितिरभूतस्यापि भूतवत् ।
संरब्धवचनोल्लासो विरोधनमिति स्मृतम् ॥ ९८ ।।

सद्भिर्विच्छलनं प्रोक्तं नृणामात्मविकत्थना ।
शक्त्या शक्तिमतः प्रोक्त आदानं कार्यसंग्रहः ॥ ९९ ॥

ततो निर्वहणस्यास्य कथ्यतेऽङ्गानि विस्तरात् ।
सन्धिप्रसादग्रथननिरोधानन्दनिर्णयाः ॥ १०० ॥

पूर्वभावोपसंहारपरिभाषणसंश्रयाः ।
कार्यदृष्ट्यद्भुतप्राप्तिकृतयस्सप्रशस्तयः ॥ १०१॥

बीजप्रापणमेवात्र सन्धिरित्यभिधीयते ।
प्रत्युत्कर्षः प्रसादो वा विषयेषूपसेवनम् ॥ १०२ ॥

ग्रथनं कथ्यतेऽस्माभिः कार्यस्यान्वेषणक्रमः।
अस्तव्यस्तस्य कार्यस्य निरोधोऽन्वेषणं भवेत् ॥ १०३॥

वाञ्छिताशेषसंसिद्धिरानन्दो विदुषां मतः ।
उद्भूतववस्तुकथनं निर्णयः परिकीर्तितः ॥ १०४॥

अभिप्रेतार्थसंसिद्धिः पूर्वभावो विधीयते ।
सम्यक् समाप्तिः काव्यानामुपसंहार उच्यते ॥ १०५॥

परस्परकृता सूक्तिः परिभाषणमुच्यते ।
अद्भुतावाप्तिरधिका संश्रयः कथ्यते बुधैः ॥१०६ ॥