पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६१
पुरुषसिद्धिः ।

भिः ! सुखदुःखमोहात्मकं चेदं बुद्ध्यादि, तस्मादेतदपि परेणाधिंष्ठातव्यम् । स च परस्त्रैगुण्यादन्य आत्मेति ।।

 इतश्चास्ति पुरुषो–“भोक्तृभावात्" भोक्तृभावेन भोग्ये सुखदुःखे उपलक्षयति । भोग्ये हि दुखदुःखे अ- नुकूलप्रतिकूलवेदनीये प्रत्यात्ममनुभूयेते । तेनानयोरनु- कूलनीयेन प्रतिकूलनीयेन च केनचिदप्यन्येन भवित-




थादिवत् । अधिष्ठितत्वं च प्रवृत्यनुकूलाऽधिष्ठातृसम्बन्धवत्वम् । सच सम्वन्धस्तन्निरूपितविलक्षणसंयोग एव । यथाऽजसंयोग- स्तथोक्तं प्राग् । कालेन गुणक्षोभे सति परिणामविशेषरूपक्रिय- या महदादि हेतुसंयोगस्योत्पत्तिसम्भवाञ्च । यदि यथा रथादि य- न्त्राादिभिरिति दृष्टान्तानुरोधात्परेणाधिष्ठीयमानत्वं परप्रयोज्यपवृ- त्तिमत्वं तदापि संयोगद्वारैव, नतु कृतिद्वारा तदसम्भवस्य पूर्वमुक्त- प्रायत्वात् ।।

 यत्तु ब्रह्ममीमांसाभाष्यकारः । अधिष्ठानानुपपत्तेश्च रूपादि- हीनं च प्रधानमीश्वरस्याधिष्ठेयं न सम्भवति मृदादि वैलक्षण्यादिति तन्न । आधिष्ठितिरधिष्ठानमितिव्युत्पत्याऽधिष्ठानपदस्य सम्बन्धप- रत्वे सम्बन्धानुपपत्तरित्यनेन पौनरुक्त्यापत्तेः । इन्द्रियादेधिष्ठेय- त्वदर्शनेन रूपादेरधिष्ठेयत्वानियामकत्वाभावाच्च ॥ भोक्तृभावो- नाम भोक्तृत्वं तच्च स्वबुद्धिवृत्तिसुखादिप्रतिबिम्बाश्रयत्वं तच्चोभ- यमतेऽप्रसिद्धमतस्तघटकीभूतसुखादिकमादायानुमानप्रकारमाह- भोक्तृभावेनेति । सुखदुःखे उपलक्षणीये इत्यनुत्का उपलक्षय- तीति कथनेन ग्रन्थकर्त्तुरेवायमभिप्राय इति सूचितम् । लाक्षणिकपदो- पादानं च पुरुषसुखादीनां परस्परसम्बन्धलाभाय । सुखदुःखयोर्नि- रुक्तिमाहानुकूलत्यादि । अनुकूलत्वं स्बसम्बन्धितथान्यानधीने- च्छाविषयत्वम् । प्रतिकूलत्वं च स्वसम्बन्धितया द्वेषविषयत्वम् । शत्रु- सुखादावव्याप्तिनिरासाय स्वसम्बन्धितयेति । अज्ञातसुखादेर्माना-