पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
59
व्यवहारकाण्डः

पादः । धर्माधर्मविवेकराहित्येन देशाचारमवलम्ब्य यदाचर्यते तच्चरित्रं पादः । तदनुसारी निर्णयोऽपि तथैव । मानान्तराविद्धो राजबुद्धिमात्रपरिकल्पितो निर्णयो राजशासनम् । अत्र धर्मादीनामेकैकस्य द्वैविध्यम् । स च धर्माख्यनिर्णयः तत्वानुसरणेन एकः । विना तत्वानुसरणं [१]तत्वोत्तरेण वा दिव्यप्रमाणेन वा कृतो द्वितीयः । मानुपप्रमाणनिश्चितो व्यवहार एकः । वाक्छलानन्तरत्वेन द्वितीयः । उल्काहस्तादिलिङ्गेन निर्णीतश्चरित्रमेकः प्रकारः । देशस्थित्या द्वितीयः।

 नन्वेवं तर्हि "उत्तरः पूर्वबाधकः" इत्युक्तिरयुक्ता तत्वार्थानुगुण्यातिशयेन पूर्वस्यैवोत्तरबाधकत्वात् ।

 "छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः ॥" इति याज्ञवल्क्येनोक्तेः, उच्यते, सत्यम्, उत्सर्गतः, न सर्वत्रैवं । क्वचिद्विषये तूत्तरः पूर्वबाधको भवत्येव । तथाहि-- यथा येन केनचिद्राजन्यादिना मोहात्कथंचिद्राजदारादेः स्पर्शनादिकं कृतं, कृत्वा च प्राणभयात् मिथ्याकरोति साक्षिणश्च सन्ति । ते च राज्ञा पृष्टास्सन्तो वधो[२] माभूदिति नायमस्य कर्मणः कर्तेति मिथ्यासाक्ष्यं ब्रूयूः । तदा दोषकारिणः तत्कर्तृत्वाप्राप्तेः धर्मो व्यवहारेण बाध्यते । युक्तं चात्र धर्मबाधनम् "वर्णिनां हि वधो यत्र" इति साक्षिणो मिथ्याभिधानविधानात् । यदा पुनः "परदाराभिगमनं कृतमनेन अस्य साक्षिणो विद्यन्त" इति केनचिदभियुक्तो ब्रूते । "सत्यमेतत्साक्षिभाषितम् । तथापि नाहं दण्ड्यश्चरित्रबलात् । मयैत



  1. सत्त्वो--D कोशपाठः.
  2. वधोऽस्य.