पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
53
व्यवहारकाण्डः

नारदवचनानुसारि निबन्धनकारवचनम् । अतस्तद्वाक्यस्यापि गौतमसूत्रस्य नारदवचनानुसारित्वमेवेति ध्येयम् । एतदनुसारेणैवास्माभिरप्युक्ता विवादपदानां परस्परसंगतिः । अतश्च ऋणादानादिदायविभागान्तानां देयनिबन्धनत्वेन प्रतिपादनम् । साहसादिपञ्चकस्य दण्डनिबन्धनत्वमिति प्रकरणभेदं सूचयितुं "दायभागोऽथ साहसम्" इत्यथशब्दः प्रयुक्तः । अतश्च देयप्रतिपादनानन्तरं दण्डप्रतिपादनस्यावसर इति संगतिः । वाक्पारुष्यदण्डपारुष्ययोः साहसस्य च परस्परभेदाभावेऽपि दण्डाल्पत्वबहुत्वार्थं पृथग्ग्रहणमिति वक्ष्यते । पूर्वप्रकरणे चौर्यं निरूपितम् । द्यूतसमाह्वययोस्तुल्ययोगक्षेमतया चौर्यानन्तरं संगतिः । अथवा सप्तदशविवादपदप्रकीर्णकपदयोः संगत्यन्तरं पूर्वं पराजितस्यैव दण्डविधानमुक्तम्, अत्र तु (वि)जयिनोऽपि दण्डविधानमित्यनयोस्संगतिः ।

"दुर्दृष्टांस्तु पुनर्दृष्ट्वा व्यवहारान् नृपेण तु ।
सभ्यास्सजयिनो दण्ड्या विवादद्विगुणं दमम् ॥" इति

याज्ञवल्क्येन जयिनो दण्डविधानं प्रकीर्णकाख्यविवादान्तर्गतत्वेन स्मृतत्वात् । अत्र तु बहु वक्तव्यमस्ति । तत्तु तत्रैव वक्ष्यते । अथवा संगत्यन्तरम्--

 "भृतच्छलानुरोधेन द्विगतिस्समुदाहृता" इति व्यवहारस्य छलानुसरणं तत्वानुसरणं इति गतिद्वयमुक्तम् । तत्र तत्वानुसरणेन सप्तदश विवादपदान्यनुक्रान्तानि । छलानुसरणेन प्रकीर्णकाख्यं विवादपदमनुक्रान्तमिति । तथा च अस्मिन् प्रकरणे बृहस्पतिः--