पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
51
व्यवहारकाण्डः

 वस्तुतस्तु विनिमयपरिवृत्तिपारिभाषिक्या परिभाषया तयोर्वाचनिकदानरूपेण स्वत्वहेतुत्वसिद्धिरस्त्येवेत्युक्तं तत्रैव । अतश्च पूर्वप्रकरणे विक्रीयासंप्रदानता, अत्रतु परितृत्त्यनुशय इति । समाख्या तु विनिमयपरिवृत्त्यनुशययोरपि लक्ष्येत्याह भारुचिः ।

 पूर्वस्मिन् प्रकरणे क्रीत्वानुशये परिवृत्त्यनुशये च क्रीतविषयः परिवृत्तेश्च अतिक्रम उक्तः । अत्र तु समयानपाकर्माख्ये विवादपदे समयस्य अतिक्रम उच्यत इति संगतिः । पूर्वस्मिन् प्रकरणे समयानपाकर्माख्ये विवादपदे नैगमादिविषयतया संविद्व्यतिक्रम इति संगतिः । यद्यप्यनयोरैकाधिकरण्यमेव युक्तम्, तथापि स्त्रीपुंसाख्यविवादपदोपयोगितया गृहक्षेत्रादिनिर्णयोपयोगितया पृथगधिकरणतेति ध्येयम् । पूर्वस्मिन् प्रकरणे क्षेत्रविवादो निर्णीतः । क्षेत्रं द्विविधम् । स्थावरं जङ्गमं चेति । स्थावरक्षेत्रविषयविवादविषयानन्तरं जङ्गमात्मकस्त्रीरूपक्षेत्रजविवादनिर्णय इति संगतिः । पूर्वस्मिन् प्रकरणे स्त्रीपुंसाख्यो धर्मः प्रतिपादितः । अत्र तु दायविभागाख्ये विवादपदे स्त्रीपुंसावेवाधिकृत्य विवादः प्रवर्तत इति तयोरुपजीव्योपजीवकतया संगतिः । अथ साहसाख्यस्य पदस्य संगतिः । पूर्वत्र त्रयोदशविवादपदेषु देयादेयविचारः कृतः, यथाह-- विष्णुः 'व्यवहारो द्विरुत्थानः' इति । व्यवहारकारणद्वयं कथितम् । तथाच गौतमसूत्रं "द्विरुत्थानतो द्विगतिः" इति, व्यवहार इत्यनुषज्यते ॥ तत्र निबन्धनकारेणोक्तम्-- ऋणादानादिदायविभागान्तानां देयनिबन्धनसाहसादिपञ्चकस्य दण्डनिबन्धनत्वमिति द्विरुत्थानतेत्यर्थ इति ।