पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
39
व्यवहारकाण्डः

यत्वात् कृत्स्ना भूमिरुक्ता चक्रवर्त्यपेक्षया, राजमात्रापेक्षया तु,

"मण्डलाद्बहिरेतेषामुदासीनो बलाधिकः ।
अनुग्रहे संहितानां व्यस्तानां च वधे प्रभुः" ॥ इति ॥

उदासीनान्तर्भावे एकादशविधमिति ध्येयम् । द्वादशं मण्डलं त्रयोदशकं च पूर्वमेव व्याख्यातम् । चतुर्दशं मण्डलमित्यपरे--

 तथाच बृहस्पतिः--

"सप्तप्रकृतिकं यत्तु विजिगीषोररेश्च यत् ।
चतुर्दशकमेवेदं मण्डलं परिचक्षते" ॥ इति ॥

विजिगीषोररेश्च प्रत्येकं सप्तेति चतुर्दशकम् । यत्पदद्वयोपादानादित्याहुराचार्याः । केचिदष्टादशकमाहुः--

"संयुक्तस्त्वरिमित्राभ्यां उभयारिस्तथा रिपुः ।
मौला द्वादश राजानः इत्यष्टादशकं गुरुः" ॥ इति ॥

अयमर्थः । अरिविजिगीष्वोरुभयोः अपकार्युपकारिलक्षणाभ्यां बहिस्स्थितस्य स्वारिमित्रसहिताभ्यां अरिमित्राभ्यां षड्भ्यां सह मौला द्वादश राजानः । एवमष्टादशकं मण्डलमिति । अपरे त्वेकविंशतिकं मण्डलमाहुः यथाऽऽहोशना--

"सप्तप्रकृतिकास्सर्वे विजिगीष्वरिमध्यमाः ।
एकविंशतिकं प्राहुरपरे परवादिनः" ॥ इति ॥

त्रिंशत्कमित्यपरे--

"पौरस्त्यौ द्वौ जिगीषेस्तु पश्चिमौ चेति पञ्चकम् ।
अमात्याद्या पृथक्तेषां त्रिंशत्कं परिकीर्ति[१]तम्" ॥



  1. परिचक्षते.