राजमण्डलम्
उशनआदिमते तु एकत्वादिसङ्ख्यासङ्ख्येयप्रकृतिभेदेन मण्डलबहुत्वमुक्तम् । अत एव उशना--
"परस्पराभियोगेन विजगीषोररेस्तथा ।
अरित्वविजिगीषुत्वे एका प्रकृतिरित्यतः" ॥
विजिगीषुणा अभियुक्तस्य अरेरपि प्रत्यभियोक्तृत्वाकारेण एका प्रकृतिरित्यर्थः । पराशरमतानुसारेण द्वे प्रकृती इत्याह उशना--
"द्वे एव प्रकृती न्याय्ये इत्युवाच पराशरः ॥ इति ॥
अयमर्थः-- विजिगीषुः अभियोक्तृत्वात् प्रधानम् । अभियोज्यत्वात् अरिरपि प्रधानम् । इतरेषां तन्मण्डलान्तर्गतत्वात् तयोरेकानुप्रवेशः इति द्वे एव प्रकृती इति ।
त्रितयमपि न्याय्यमिति विष्णुः-- मध्यमोदासीनशत्रुभिरभियुञ्जानस्य अरिमिति शेषः । सिद्धिः कार्यसिद्धिः अत्र विजिगीषोरपि प्रत्यभियोगसमये शत्रुत्वात् शत्रुकोटिनिवेशः इति भावः ।
अतएवाह उशना--
"मण्डलं त्रिकमित्याहुः विजगीष्वरिमध्यमाः" ॥ इति ॥
अन्ये चतुष्कं मण्डलमित्याहुः । यथोक्तं राजलासके--
"मूलप्रकृतयश्चैताः चतस्रः परिकीर्तिताः ।
आहैतत्तन्त्रकुशलः चतुष्कं मण्डलं मयः" ॥ इति ॥