पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
33
व्यवहारकाण्डः

स्वशरीरनिवेदनं वैद्यानाम् । अतएवाह याज्ञवल्क्यः--

"प्रेषयेच्च ततश्चारान् स्वेष्वन्येषु च सादरान् ।
ऋत्विक्पुरोहिताचार्यैराशीर्भिरभिनन्दितः ॥
दृष्ट्वा ज्योतिर्विदो वैद्यान् दद्याद्गां काञ्चनं महीम् ।
नैवेशिकानि च तथा श्रोत्रियाणां गृहाणि च ॥
ब्राह्मणेषु क्षमा स्निग्धेष्वजिह्मः क्रोधनोऽरिषु ।
स्याद्राजा भृत्यवर्गे च प्रजासु च पिता यथा" ॥ इति ॥

 ब्राह्मणेष्वधिक्षिपत्स्विति शेषः ।

राज्ञः प्रजापरिपालने फलविशेषमाह विष्णुः--

षड्भाग हारित्वम्

"तपसः षड्भागं गृह्णाति प्रजारञ्जनात् राजा" इति ।

अस्यार्थः-- प्रजारञ्जनादेव राजशब्दवाच्यः । न तु पुण्यात् । षड्भागमादत्ते इति । अत एवाह वसिष्ठः--

"न्याय्यो राजा षड्भागहारी" इति ।

न्याय्यो न्यायादनपेतः षष्ठं भागं तपस इति शेषः ।

राज्ञः प्रजापरिपालनफलम्.

अतएवाह याज्ञवल्क्यः--

"पुण्यात् षड्भागमादत्ते न्यायेन परिपालयन् ।
सर्वदानाधिकं यस्मात् प्रजानां परिपालनम्" ॥ इति ॥

सर्वदानेभ्योऽअधिकं तस्मादवश्यं कर्तव्यमित्यर्थः । विज्ञानेश्वरस्तु,

 "यस्मादधिकं फलं तस्मात् प्रजासु यथा पिता तथैव स्यादिति गतेन संबन्धः" इत्याह ।

 S.VILASA
5