पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
19
व्यवहारकाण्डः

ष्कपदेन ज्ञापितत्वात् । क्रोधजे गणे त्रयाणां कष्टतरत्वमाह स एव ।

दण्डस्य पालनं चैव वाक्पारुष्यार्थदूषणे ।

क्रोधजे गणे त्रयाणां कष्टतमत्वमाह स एव--

क्रोधजेऽपि गणे विन्द्यात् कष्टमेतत्त्रिकं सदा ॥ इति ।

प्राज्ञः शास्त्रार्थसूक्ष्मदर्शी गम्भीरार्थावधारणक्षम इति विज्ञानेश्वरः, शूरः निर्भयः, रहस्यवित् गोपनीयार्थवेदनशीलः । पररहस्यवेदनशील इति भारुचिः । स्वरन्ध्रगोप्ता परप्रवेशद्वाररक्षकः । आन्वीक्षिक्यामात्मविद्यायां, दण्डनीत्यां अर्थयोगक्षेमोपयोगिन्यां, वार्तायां कृषिवाणिज्यपशुपाल्यायां धनोपचयहेतुभूतायां, त्रय्यां ऋग्यजुस्सामाख्यायां च विदितः प्रसिद्धः । विनीत इति पाठं कृत्वा व्याचष्टे विज्ञानेश्वरः । विशेशेण प्रावीण्यमपि नीत इति तत्तदभिज्ञैरिति शेषः । यथाऽऽह मनुः--

त्रैविद्येभ्यस्त्रयीं विन्द्यात् दण्डनीतिं च तद्विदः ।
आन्वीक्षिकीं चात्मविदः वार्तारम्भांश्च लोकतः ॥ इति ॥

तत्परिज्ञानं किमर्थमित्यपेक्षिते हारीतः--

आन्वीक्षिक्यां तु विज्ञानं धर्माधर्मौ त्रयीस्थितौ ।
अर्थानर्थौ तु वार्तायां दण्डनीत्यां नयानयौ इति ॥

आन्वीक्षिक्यादिषु विज्ञानादिकं ज्ञातव्यमित्यर्थः नराधिपः अभिषिक्तस्स्यादिति सर्वत्र सम्बन्धः । अत्र अभिषेकयुक्तस्य नृपतेरन्तरङ्गधर्मकथनावसरे प्रासङ्गिकं तत्रैव बहिर