पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
5
व्यवहारकाण्डः

जम्भारियुद्धमखमिद्धयशोनिधानं
सम्भावितं सदसि पङ्क्तिरथाभिधानम् ॥ ५ ॥

परः पुमान् पङ्क्तिरथादथासीत् आसीमवासीकृतकीर्तिपूरः ।
रामाभिधः सोमसमानधामा धीमानसौ धीरवराग्रगण्यः ॥ ६ ॥

श्रियः पतिस्स्वावतरप्रयोजनं प्रतापलङ्केश्वरसूदनात्मकम् ।
गुरूक्तिचर्याभिषतोऽनुषङ्गतः चकारनूनं कृतिनामियं विधा ॥ ७ ॥

ततः कुशोऽभूदरिमस्तकाङ्कुशः कुशावतीशः सकुशेशयासनः ।
ततोऽतिथिर्नाम समिद्धविक्रमः सपर्ययाऽऽवर्जितनिर्जितातिथिः

वंशे रघूणामुदपादि राजा भूजानिरादित्यसमिद्धतेजाः ।
रामाकृति[१]श्श्रीकपिलेन्द्रनामा सीमातिशायीश्वरतुल्यधामा ॥ ९

अनस्तमितभानुमाननृतशून्य[२]धर्मात्मजो
विशोकरघुनायको विगतलाञ्छनश्चन्द्रमाः ।
[३].अशोषणमहार्णवस्सततदानराधासुतः
प्रतापकपिलेश्वरो गजपतिः कथं वर्ण्यते ॥ १० ॥

सौजन्यस्य खनी वनीपकवनीदैन्यस्य विच्छेदिनी
सौभाग्यस्य धुनी धुनी च यशसां धर्मेण तत्साधिनी ।
सौन्दर्यस्य झरी सरीसृपदरी विद्वेषिणां चातुरी
माहात्म्यैकमहामहेश्वरमही जागर्ति जागेश्वरी ॥ ११ ॥



  1. श्रीकलितेन्द्र-- A.
  2. वाग्धर्मजः-- B
  3. अशोषमकराकरो अमितदान-- B.