पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
3
व्यवहारकाण्डः

अथ कृतिप्रणेतृवंशावतारोऽवतार्यते.


 न ह्यत्र तत्रभवतो वंशावतारनिबन्धनमनुपपन्नमिति मम मनीषायाः समुन्मेषः, यतः खलु, अनुगुणगुणरचितरुचिरतरतारहारावळेरपि नायकमणिनिगुम्भनवशेनैव विजृम्भणम् । यथा वा लोकोत्तरचमत्कारभुवोऽपि नायिकायाः स्वानुगुणनायकसंबन्धेनैव चरितार्थता-- यथावा नयनानन्दकरस्यापि तारागणस्य निशाकर[१]परिचयादेव सौभाग्यातिशयः-- यथावा कूलङ्कषाणां कूलङ्कषजलानामपि नदीनां पाथः परिसरप्रसरेणैव शोभातिशयित्वं-- यथावा तमोनिवारणनिपुणानामपि किरणानां किरणमालिना सङ्कलनयैव सकलजगदानन्दहेतुता-- यथावा भगवतो वासुदेवस्य गुणगणा अपि लीलापरिगृहीतविग्रहावतारसम्बन्धादेव गरिमाणमावहन्तो मनो हरन्तितराम् । तथैव महानायकवंशावतारनिबन्धेनैव कृतयः सुकृतिसमाकल्पमाकल्पयन्ति । किमु वक्तव्यं प्रबन्धप्रबन्धृवंशावतारवर्णनम, सुवर्णकुसुमस्य सौरभाविर्भावः अथवा चन्दनतरोः प्रसवसमुद्गमः, अथवा अशोकतरोः फलाभिसम्बन्धः ।

 अपि च--

  मङ्गलाचारयुक्तानां विनिपातो न विद्यते ।

इति स्मृति[२]गतमपि विनिपातनिवृत्तिफलकमवश्यं मङ्गलाचरणमाचरणीयम् । तदेव मङ्गलाचरणं यत्पुण्यपुरुषपौरुषानुव



  1. निशाकरकरपरिच.
  2. स्मृतिगतमविनिपातफलक.