पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
270
श्रीसरस्वतीविलासे

तु कैश्चिदुक्तम्-- न्यासो नाम गृहस्वामिनो दर्शयित्वा तत्परोक्षमेव गृहजनहस्ते प्रक्षेपः । गृहस्वामिने निवेद्य समर्पणीयमिति । एवं सुवर्णकारादिहस्ते कटकादिनिर्माणाय न्यस्तस्य सुवर्णादेर्न्यासशब्दवाच्यतामाह । प्रतिन्यासस्तु परस्परप्रयोजनापेक्षया त्वयेदं मदीयं रक्षणीयं मयेदं त्वदीयं रक्ष्यते इति परिभाषा मूलकः । बृहस्पतिस्तु विशेषमाह--

अन्वाहिते याचितके शिल्पिन्यासे सबन्धके ।
एष एवोदितो धर्मस्तथैव शरणागते ॥

इति । शिल्पिविषये जीर्णवस्त्रादावुपघाते न दोषः । नूतनवस्त्रादावुपघाते समं दाप्यं कुविन्दादौ रजकादौ च । 'राजदैवोपघाते च न दोषः' इत्यादौ व्यवहारे पूर्वोक्तनयैरेव निर्णयः कार्यः । रजकादौ विशेष उत्तरत्र वक्ष्यते ॥

इति श्रीप्रतापरुद्रदेव महाराज विरचिते स्मृतिसङ्ग्रहे
सरस्वतीविलासे व्यवहारकण्डे उपनिध्याख्यस्य
पदस्य विलासः.