पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
258
श्रीसरस्वतीविलासे

न व्यावहारिकं-- सौरिकमित्यर्थः । अथ पौत्रेण देयमुच्यते । तत्र मनुः--

सदोषं व्याहतं पित्रा नैव देयमृणं क्वचित् ।

सदोषं-- शूरादिव्यसननिमित्तत्वेन दोषयुक्तं । पित्रा व्याहतं-- निराकृतं । पित्रा स्वदृष्टमपह्नुतं वा प्रमाणसाधितं चेद्देयम् ॥

पुत्रपौत्रे ऋणं देयं निह्नवे साक्षिभावितम् ।

इति याज्ञवल्क्योक्तेः । अत्र न देयमित्यदेयमात्रोपलक्षणं । तेनान्यदपि पुत्रेषूक्तं पौत्रेष्वपि द्रष्टव्यं । पौत्रदेयं तु तत्र कात्यायनः--

पित्रा दृष्टमृणं यत्तु क्रमायातं पितामहात् ।
निर्दोषं नोद्धृतं पुत्रैर्देयं पौत्रैस्तु तद्भृगुः ॥

अस्यार्थः-- पितृकृतं-- स्वपितृकृतत्वेन पित्रा निस्सन्दिग्धमागतं । पितामहात् क्रमप्राप्तं निर्दोषं-- अदेयत्वापादकदोषरहितं । पुत्रैर्नोद्धृतं-- पुत्रैर्दुश्चिकित्सरोगादिवशादनपाकृतं । तथाच स एव--

यद्देयं पितृभिर्नित्यं तदभावे तु तद्धनात् ।
तद्धनं पुत्रपौत्रैर्वा देयं तत्स्वामिने तदा ॥

पितृधनसद्भावे तस्मादेव ऋणं । धनाभावेऽपि पुत्रत्वात्पौत्रत्वाद्देयमित्यर्थः । पौत्रैस्तु प्रातिभाव्यं पुनस्सर्वप्रकारमपि न देयमित्युक्तं प्राक् । अत्र विष्णुना विशेष उक्तः-- धनग्राहिणि प्रेते प्रव्रजिते द्विदशास्समाःप्रोषिते वा तत्पुत्रपौत्रैर्धनं देयं; नाशःपरमनीप्सुभिरिति । प्रव्रजिते-- सन्यस्त इत्यर्थः । द्द्विदशाः-- विंशतिः । समाः-- संवत्सराः । धनग्राहिणि विंशतिवर्षव्यापितया प्रवासे कृत इत्यर्थः । "नातःपरमनीप्सुभिः" इत्यस्यायमर्थः-- पुत्रपौ