प्रातिभाव्यं दण्डशुल्कशेषं पुत्रैर्न दापयेत् ॥
सौरं-- सुरासम्पादननिमित्तकम् ॥ आक्षिकं-- द्यूतपराजयनिमित्तकम् ॥ वृथादानं-- नर्तकादिदत्तं । शेषं सुगमम् । वृथादानविषये स्मृत्यन्तरम्--
धूर्ते वन्दिनि मल्ले च कुवैद्ये कैतवे शवे ।
चाटचारणयोरेषु दत्तं भवति निष्फलम् ॥
चारणाः-- गायकाः । चाटाः-- पूर्वमुक्ताः । कात्यायनेन प्रतिश्रुतमुक्तं--
लिखितं मुक्तकं चापि देयं यत्तु प्रतिश्रुतम् ।
परपूर्वस्त्रियै तत्तु विन्द्यात्कामश्रुतं ऋणम् ॥
मुक्तकं-- लेखनरहितं । तथा क्रोधप्रतिश्रुतं च तेनैवोक्तं--
यस्य हिंसां समुत्पाद्य क्रोधाद्द्रव्यं विनाश्य वा ।
उक्तं तुष्टिकरं यत्तु विन्द्यात्क्रोधप्रतिश्रुतम् ॥
अयमर्थः-- यस्य हिंसां धनविनाशं वा क्रोधात् कृत्वा तत्सन्तोषाय द्रव्यं दास्यामीति प्रतिश्रुतं तदृणं क्रोधजातमिति । अत्र प्रातिभाव्यं दर्शनप्रतिभूदेयं विवक्षितं । तथाच मनुः--
प्रातिभाव्यं वृथादानमाक्षिकं सौरिकं च यत् ।
दण्डशुल्कावशेषं च न पुत्रो दातुमर्हति ॥
दर्शनप्रातिभाव्ये तु विधिस्स्यात्पूर्वचोदितः ।
इति । पूर्वोदितो विधिः प्रातिभाव्यं पुत्रो दातुमर्हतीति विधिः । दण्डशुल्कावशेषमिति पदद्वयस्यार्थस्तूशनसा स्पष्टीकृतः ॥
दण्डं वा दण्डशेषं वा शुल्कं तच्छेषमेव वा ।
न दातव्यं तु पुत्रेण यच्च न व्यावहारिकम् ॥