पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
252
सरस्वतीविलासे

नष्टे दरिद्रे वा जाते सवृद्धिकं धनं दातव्यं ॥ तदभावे तत्पुत्रेणापि सवृद्धिकमेव दातव्यमितीयं गमनिका । अत्र ऋणादानप्रतिदानविधिमाह बृहस्पतिः--

याचमानाय दातव्यमप्रकालमृणं कृतम् ।
पूर्णावर्धो शान्तलाभमभावे च पितुस्सुतैः ॥

अप्रकालं-- अप्रकृष्टकालं अदीर्घकालमिति यावत् । कृतं दीपोत्सवकाले प्रतिदेयमृणमित्येवं सावधिकत्वेन कृतं । अयमर्थः-- दीर्घकालमृणं याच्यानन्तरं दातव्यं । सावधिकत्वेन कृतमृणं अवधौ प्राप्ते देयं । वृद्ध्यर्थमृणं लाभशान्त्यनन्तरं दातव्यं । ऋणिकाभावेऽपि तत्सुतैरप्येवमेव दातव्यं । अन्यथा दोषस्मरणात्--

तपस्वी चाग्निहोत्री च ऋणवान् म्रियते यदि ।
तपस्या चाग्निहोत्रं च सर्वं तद्धनिनो भवेत् ॥

इति । तेनावश्यमृणापाकरणं कर्तव्यमित्यर्थः । तत्र ससाक्षिकमेव कर्तव्यं । यथाऽऽह याज्ञवल्क्यः--

साक्षिमच्च भवेद्यद्वा तद्दातव्यं ससाक्षिकम् ।

इति । सामान्योक्तेः पूर्वसाक्ष्यभावे साक्ष्यन्तरसमक्षं धनं दातव्यमिति । अत्र विशेषमाह पितामहः--

अविभक्ता ऋणं दद्युः पित्र्यं मातृकमेव वा ।
तदभावे विभक्ताश्च न तु तेन प्रतिश्रुतम् ॥

मातापितृसंबन्धिद्रव्याभावे ताभ्यां प्रतिश्रुतं न देयमिति वरदराजः । व्यासस्तु--

ऋणं पैतामहं पौत्रःप्रातिभाव्यागतं सुतः ।
समं दद्युस्तत्सुतौ तु न दाप्याविति निश्चयः ॥