पूर्वोक्तेन विधानेन स्नातमार्द्राम्बरं शुचिम् ॥
पूर्वोक्तेन-- सर्वदिव्यसाधारण्येनोक्तेन । कारिणं-- दिव्यकारिणम् । तथा च याज्ञवल्क्यः--
देवानुग्रान् समभ्यर्च्य तत्स्नानोदकमाहरेत् ।
संश्राव्य पाययेत्तस्माज्जलाच्च प्रसृतित्रयम् ॥
इति । नारदस्तु-
तमाहूयाभिशप्तं तु मण्डलाभ्यन्तरस्थितम् ।
आदित्याभिमुखं कृत्वा पाययेत्प्रसृतित्रयम् ॥
इति । हारीतस्तु--
गोमयेनानुलिप्तायां भूमौ शौध्यं तु पाययेत् ।
इति । याज्ञवल्क्यस्तु शुद्धिप्रकारमाह--
अर्वाक्चतुर्दशादह्नो यस्य नो राजदैविकम् ।
व्यसनं जायते घोरं स शुद्धस्स्यान्न संशयः ॥
इति । ऊर्ध्वं पुनरवधेर्न दोष इत्याह नारदः--
ऊर्ध्वं यस्य द्विसप्ताहाद्वैकृतं तु महद्भवेत् ।
नाभियोज्यस्स विदुषा कृतकालव्यतिक्रमात् ॥
इति । एतन्महाभियोगविषयं; 'महाभियोगेष्वेतानि' इति प्रस्तुत्याभिधानात् । अवध्यन्तराणि पितामहेनोक्तान्यल्पविषयाणि । 'कोशमल्पे तु दापयेत्' इति स्मरणात् ।
त्रिरात्रात्सप्तरात्राद्वा दशाहाद्वा द्विसप्तकात् ।
वैकृतं यस्य दृश्येत पापकृत्स उदादृतः ॥
इति । द्विसप्तकादिति याज्ञवल्क्यवचनेन समानार्थत्वान्महाभियोगविषयम् । एतदेवोक्तं विज्ञानयोगिना-- महाभियोगोक्तद्रव्याद