इति । अत्र शोध्यश्च कुहकादिभ्यो रक्षणीय इत्याह पितामहः--
त्रिरात्रं पञ्चरात्रं वा पुरुषैस्स्वैरधिष्ठितम् ।
कुहकादि भयाद्राजा धारयेद्दिव्यकारिणम् ॥
इति । तथा विषमपि रक्षणीयमित्याहस एव--
शार्ङ्गं हैमवतं शस्तं गन्धवर्णरसान्वितम् ।
अकृत्रिममसंमूढममन्त्रोपहितं भवेत् ॥
इति । उक्तविशेषणविशिष्टं यथा भवेत्तथा रक्षणीयमित्यर्थः ।
भक्षिते तु यदा स्वस्थो मूर्छाछर्दिविवर्जितः ।
निर्विकारो दिनस्यान्ते शुद्धं तमभिनिर्दिशेत् ॥
इति । एतच्च दिनान्तकालरूपकालप्रतीक्षणं यावत्काले विषं जीर्यति तावन्मात्रोपलक्षकं; न तु नियामकम् । तथा च याज्ञवल्क्यः--
एवमुक्त्वा विषं शार्ङ्गं भक्षयेद्धिभशैलजम् ।
यस्य वेगैर्विना जीर्येच्छुद्धिं तस्य विनिर्दिशेत् ॥
इति । यदा विषप्रतिमात्रं प्रयुक्तं स्यात् तदा करताळिकाशतपञ्चकपरिमितकालं प्रतीक्ष्य तदनन्तरं चकित्सा कर्तव्येत्याह पितामहः--
पञ्चताळशतं कालं निर्विकारो यदा भवेत् ।
तदा भवति संशुद्धः तदा कुर्याच्चिकित्सिकम् ॥
इति । अत्र विज्ञानयोगिनोक्तं-- विषे पीते यावत्करताळशतपञ्चकं तावत्परीक्षणीयः । अनन्तरं चिकित्सनीय इति मुख्यं प्रतीक्षणकालमुक्त्वा 'निर्विकारो दिनस्यान्ते' इत्यादि शुद्धिवचनं स्वल्प