पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
206
श्रीसरस्वतीविलासे

इति । अत्र पूर्वाह्नशब्दः परिसंख्यापरः--

 नापराह्ने न मध्याह्ने न सन्ध्यायां तु धर्मवित् ।

इति कालान्तरनिषेधस्मरणात् । घृतं च विषत्त्रिंशद्गुणं ग्राह्यं--

 पूर्वाह्ने शीतले देशे विषं देयं हि देहिनाम् ।
 घृतेन योजितं श्लक्ष्णं घृतं त्रिंशद्गुणान्वितम् ॥

इति कात्यायनस्मरणात् । पितामहेन प्रयोगक्रम उक्तः--

 सोपवासाय देयं स्याद्विषं ब्राह्मणसन्निधौ ।
 सूपोपहारमन्त्रैश्च पूजयित्वा महेश्वरम् ॥
 देवानां सन्निधौ चैव दक्षिणाभिमुखे स्थिते ।
 उदङ्मुखः प्राङ्मुखो वा दद्याद्विप्रस्समाहितः ॥

इति । तदयमत्र निष्कर्षः-- प्राड्विवाकस्सोपवासो महादेवं षोडशोपचारैरभ्यर्च्य तत्पुरतश्शार्ङ्गं हैमवतं वा विषं घृतप्लुतं संस्थाप्य धर्माद्यावाहनादि शिरप्रपत्रारोपणान्तं दिव्यमातृकान्तं कृत्वा विषमभिमन्त्र्य दक्षिणाभिमुखाय स्वयं प्राङ्मुख उदङ्मुखो वा विषं प्रयच्छति । स च शोध्यो विषमभिमन्त्र्य भक्षयेदिति क्रमः । प्राड्विवाककर्तृकविषाभिमन्त्रण मन्त्रः--

 त्वं विष ब्रह्मणा सृष्ट परीक्षार्थं दुरात्मनाम् ।
 पापानां दर्शयात्मानं शुद्धानाममृतं भव ॥
 मृत्युमूर्तिर्विषं त्वं हि ब्रह्मणा परिकीर्तिता ।
 त्रायस्वैनं नरं पापात्सत्येनास्यामृतं भव ॥

इति । शोध्यकर्तृकविषाभिमन्त्रणमन्त्रस्तु--

 त्वं विष ब्रह्मणः पुत्रः सत्ये धर्मे व्यवस्थितः ।
 त्रायस्वास्मानभीशापात्सत्येन भव मेऽमृतम् ॥