पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
204
श्रीसरस्वतीविलासे

नाभिमात्रोदकावस्थितस्य बलीयसः पुरुषस्य धर्मस्थूणाया वा समीपं शोध्यं प्रापयेत् । तदनन्तरं त्रिषु शरेषु मुक्तेषु एको वेगवान् मध्यमशरपातं गत्वा तमादाय तत्त्रैव तिष्ठति । अन्यस्तु पुरुषो वेगवान् शरमोक्षणस्थाने तोरणमूले तिष्ठति । एवं स्थितयोः तृतीयस्यां करताळिकायां विशोध्यो निमज्जति । तत्समकालमेव तोरणमूले स्थितोऽपि द्रुततरं मध्यमशरपातस्थानं गच्छति । शरग्राही च तस्मिन् प्राप्ते द्रुततरं तोरणमूलं प्राप्यान्तर्जलगतं यदि न पश्यति तदा शुद्धो भवतीति । सार्धशतहस्तपरिमितदेशे लक्ष्यं कृत्वा जविनोः पुरुषयोः लक्ष्यतोरणपर्यन्तं प्रधावनानुधावने कार्ये । सार्धशतहस्तपरिमितदेशन्यूनाधिकभावे दोषश्रवणादेतदेव प्रधानमिति केचित् । धनुश्शरादि पूजास्मरणात् तिश्रियमार्थमित्यपरे । इति जलविधिः

अत्र विषविधिः

अथ विषविधिरुच्यते । अत्र प्रजापतिः--

 विषस्याद्य प्रवक्ष्यामि विधिं चक्षणचोदितम् ।
 अभियुक्ताय दातव्यं यवमात्रं प्रदीयते ॥
 यवास्सप्त प्रदातव्या अथवा षट्च संख्यया ।
 [१]शृङ्गिणो वत्सनाभस्य हैमस्य च विषस्य च ॥
 चारितानि च जीर्णानि कृत्रिमाणि तथैव च ।
 भूमिजातानि सर्वाणि विषाणि परिवर्जयेत् ॥

नारदस्तु--

 भ्रष्टं च चारितं चैव धूपितं मिश्रितं तथा ।


  1. शृङ्गिणोवस्स्ताभस्य हिमजस्य.