पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
200
श्रीसरस्वतीविलासे

षयोरुत्सन्नानुष्ठानत्वात् तद्विधिमनाख्याय कोशविधिरुच्यत इति । उत्कलादिषु क्वचिद्देशेषु जलविधेरेव प्रामाणिकत्वेन व्यवह्रियमाणत्वात् । शूरसेनमागधादिषु क्वचिद्देशेषु विषविधेरेव प्रामाणिकत्वेन परिगृहीतत्वात् । अतः क्रमप्राप्तो जलविधिरुच्यते । तत्र प्रजातिः--

 तोयस्याथ प्रवक्ष्यामि विधिं धर्म्यं पुरातनम् ।
 ऋतानृत (शुभाशुभ) परीक्षार्थं ब्रह्मणा विहितं स्वयम् ॥
 शरान्वै पूजयेद्भक्त्या वैष्णवं च धनुस्तथा ।
 मण्डयेत्पुष्पधूपैश्च ततः कर्म समारभेत् ॥

इति । तत्र कात्यायनः--

 शरांश्चानायसैरग्रैः प्रकुर्वीत विशुद्धये ।
 वेणुकाण्डमयैश्चैव क्षेप्ता च सुदृढः क्षिपेत् ॥

क्षेप्ता क्षत्रिय एव--

 क्षेप्ता तु क्षत्रियः प्रोक्तः तद्वदब्राह्मणोऽपि वा ।
 अक्रूरहृदयश्शान्तः सोपवासस्ततःक्षिपेत् ॥

इति पितामहवचनात् । अत्र नारदः--

 क्रूरं धनुस्सप्तशतं मध्यमं षट्शतं स्मृतम् ।
 मन्दं पञ्चशतं प्रोक्तं एष ज्ञेयो धनुर्विधिः ॥

सप्तशतमिति । अङ्गुलानां सप्ताधिकं शतं क्रूरमित्यर्थः । एवं षट्शतं पञ्चशतं ।

 मधमेन तु चापेन प्रक्षिपेच्च शरत्रयम् ।
 हस्तानां तु शते सार्धे लक्ष्यं कृत्वा विचक्षणः ॥
 न्यूनाधिके तु दोषस्स्यात् क्षिपतत्सायकांस्तथा ।