वाग्दण्डो धिग्दमश्चैव विप्रायत्तावुभौ स्मृतौ ।
अर्थदण्डवधावुक्तौ राजायत्तावुभावपि ॥
राजप्राड्विवाकसभायामेव दण्ड्यस्य व्यवहारशिरस्थाननियमस्योक्तत्वात् । ततश्च--
शिरस्स्थायिविहीनानि दिव्यानि परिवर्जयेत् ।
इत्यादि वचनं राजप्राड्विवाकादिसभायामेवेति मन्तव्यं । धर्मजं तु दिव्यमल्पविषयमेव । तस्य प्रायश्चित्तादौ शङ्काभियोगे युक्तत्वात् । यथाऽऽह पितामहः--
हन्तॄणां याचमानानां प्रायश्चित्तार्थिनां नृणाम् ।
सन्दिग्धेष्वभिशस्तानां धर्म्याधर्म्यपरीक्षणम् ॥
एतानि च दिव्यानि शपथाश्च यथासंभवमृणाधानादिषु विवादेषु प्रयोक्तव्यानि ।
स्थावरविषये लिखितस्याभावे दिव्यावसरः.
यत्पितामहवचनम्--
स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत् ।
इति । तदा लिखितसाध्यादिसद्भावे दिव्यानि परिवर्जयेदिति व्याख्येयम्--
ननु विवादान्तरेष्वपि प्रमाणान्तरसंभवे दिव्यानामनवतार एव, सत्यं, ऋणादानादिषु विवादेषूक्तलक्षणसाक्ष्युपन्यासे अर्थिना कृतेऽपि प्रत्यर्थी यदि दण्डाभ्युपगमावष्टम्भेन दिव्यमवलम्बते तदा दिव्यमपि भवति, साक्षिणामतिशयदोषसंभवात् । दिव्यस्य निर्दोषत्वेन वस्तुतस्सर्वविषयत्वात् ।