पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
166
श्रीसरस्वतीविलासे

र्वीद्यते समयः 'उपचयश्चेन्मयोत्तमेन सोढव्यः अपचयश्चेत्त्वया कौत्तिकेन सोढव्य' इति, तदा संविदनुसरणे उपचये विद्यमानेऽपि विष्णुवचनानुसारेण पादमात्रोपचय एव स्वाम्यं कौत्तिकस्य । तथा च विष्णुः--

पादमात्रोपचये कौत्तिकस्य स्वाम्यम् ।

इति । अत्र भारुचिः--

 सोऽयमुपचयः कुत्तातः पादमात्रं चेत्तस्मिन्नेवोपचये उत्तमो मनसा इममुपचयं कौत्तिको गृह्णीत, अन्यदायनाशंयोस्स्वाम्यधीनत्वं न तु कौत्तिकस्य । पादाधिक्यएव स्वाम्यात्तस्येति स्मरति । तदा तस्मिन् पादमात्रोपचितद्रव्ये उत्तमस्य स्वत्वनिवृत्तिः परस्वत्वापत्तिपर्यन्ता भवतीति तात्पर्यमिति । अयमाशयः-- मानसिकमपि दानं त्यागात्मकं स्वत्वापादकमिति वैष्णवं मनमिति । उत्तमो मननाऽयं कौत्तिक इममुपचयं गृह्णात्विति वदता भारुचिना यावत्युपचिते द्रव्ये उत्तमस्य मानसिकयागः तावत्यपि स्वत्वं वैष्णवं पादमिति मतं; ततो न्यूनेन न भवितव्यमिति । अत्र केचिदाहुः-- अनेनैव न्यायेन कुत्तायाः अपचये विद्यमानेऽपि पादमात्रमुत्तमेन सोढव्यं । ततो न्यूनं दूरत एव, तत्राधिकमैच्छिकमिति विष्णुवचनस्य तात्पर्यार्थ इति--

इति मानुषप्रमाणनिर्णयः

अथ दिव्यप्रमाणनिरूपणम्.

 अथ दिव्यप्रमाणनिरूपणम् ।

अत्र नारदः--

यथा विधानेन सदा पञ्च दिव्यानि सर्वतः ।
ददद्राजाऽभियुक्तायं पेत्य स्वर्गेऽभिनन्दति ॥