पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
164
श्रीसरस्वतीविलासे

तथा च व्यासः--

सागमो दीर्घकालश्च विच्छेदोषरवोज्झितः ।
प्रत्यर्थिसन्निधानं च पञ्चाङ्गो भोग इष्यते ॥

इति । अत्र 'पञ्चाङ्गो भोग इष्यत' इति वदन्नेकाङ्गवैकल्येऽप्यप्रामाण्यं भोगस्येति दर्शयतीत्युक्तं प्राक्, अतश्चागमनिरूपणे तदभावप्रतीतेः मूलशुद्ध्यभावात् तद्गमकप्रमाणदार्ढ्याभाव इति, अत्रोच्यते-- क्वचित्परिभाषाऽपि वित्तागम एव, यथा--

आधिः प्रणश्येद्द्विगुणे धने यदि न मोक्ष्यते ।

इत्यत्र धनद्वैगुण्यनिबन्धनपरिभाषा वित्तागममध्येऽपरिगणिताऽपि सोपाधिकं स्वत्वमवगमयतीति विज्ञानेश्वरः । चन्द्रिकाकारस्तु-- धनद्वैगुण्यपरिभाषा परिवृत्तिरूपेण तिलव्रीहिविनिमयवत् स्वत्वापदिकेत्याह । विज्ञानेश्वरमतावलम्बनेन परिभाषाया वाचिकदानान्तर्गततया स्वत्वापादकत्वमस्ति । औपाधिमकस्थलेऽप्युपाधिनिवृत्तौ स्वत्वस्य दृढत्वात् । तथाहि-- क्षेत्रादेतस्यादेतावद्धनमस्मभ्यं दीयतां अवशिष्टं गृह्यताम् । यद्वा-- एतावद्द्रव्यं गृहीत्वा तदृणं संशोध्यतां अवशिष्टं गृह्यतां इति परिभाषायामवशिष्टद्रव्ये स्वत्वनिवृत्तिः परस्वत्वापत्तिपर्यन्ता भवत्येवेति दृश्यते । अथवा भारुचिमतावलम्बनेन कुत्ताकारकारितापरिभाषावष्टम्भितमानसिकदानान्ततया स्वत्वापादकत्वं परिभाषायास्समस्ति । ननु सङ्कल्पमात्रात् स्वत्वं नोत्पद्यते किन्तु सङ्कल्पात् स्वत्वमपैति । स्वत्वोत्पत्तिस्त्वार्जनादेवेति धनार्जननयसिद्धत्वात्तद्व्याकोपो मानसिकदानान्ततया परिभाषाया स्स्वत्वहेतुत्वोक्ताविति चेत्, मैवं, यदि धनार्जननयस्स्वत्वापाय