पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
163
व्यवहारकाण्डः

यति । आसेधस्त्वासेधसमय एव फलमप्युपरुणद्धीति । अत्राहुः-- बलवता आसेध एव कर्तव्यो नाक्रोश इति भारुच्यादयः । अत्रा[१]क्रोशकर्तुः निरूपणं स्फुटत्वान्न कृतं, अतश्चा[२]सेधसद्भावे तु तदभावविशिष्टत्वरूपधर्मोपमर्दनद्वारा विशिष्टं कृत्स्नं प्रमाणमुपमृद्गात्याक्रोश इति ।

कुत्तालेखबलविचारः

 ननु लिखितादीनां प्रामाण्यमागमनिरूपणद्वारा, आगमाभावे तत्प्रामाण्यं प्रशिथिलमूलतया दृढं न भवति, आगमास्तु केषाञ्चिन्मते सप्त । तथा च स्मृतिः--

'सप्त वित्तागमा धर्म्याः'

इति । गौतमादीनां मते तु रिक्थक्रमसंविभागपरिग्रहाधिगमप्रति ग्रहनिर्वेशादयोऽष्ट वित्तागमा इति । भारद्वाजमते तु परिवृत्तेरपि वित्तागमरूपतया निगदितत्वात्तया सार्धं नव वित्तागमाः । एतेषां मध्ये कुत्ताकाराकारितपरिभाषितार्थस्यापरिगणनादागमप्रकारनिरूपणाशक्तौ कुत्तालेखस्य तदारूढसाक्षिणां च दौर्बल्यं प्राप्तं ।

[३]अनागमेन यो भु बहून्यब्दशतान्यपि ।
चोरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः ॥

इति स्मृतेः । आगमशून्याया भुक्तेः प्रमाणकोटिनिवेशाभावः प्रतीयते । यत्तु भोगागमयोः साम्यं बृहस्पतिवचनात्प्रतीयते; तत्तु केवलभुक्तेः दौर्बल्यज्ञापनपरतया न विरुद्धं । तथा च बृहस्पतिः--

भुक्त्या केवलया नैव भूमिसिद्धिमवाप्नुयात् ।
आगमेनापि शुद्धेन द्वाभ्यां सिद्धिमवाप्नुयात् ॥



  1. अत्रासेधकर्तुर्निरूपणम् B.
  2. अतश्चाक्रोश.
  3. अनागमं तु.