पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
143
व्यवहारकाण्डः

आत्मनैव लिखेज्ज्ञातमज्ञस्त्वन्येन लेखयेत्" ॥

यत्पुनस्तेनैवोक्तम्--

"अष्टमाद्वत्सरात्सिद्धिं स्मारितस्येह साक्षिणः ।
आपञ्चमात्तथा सिद्धिं यदृच्छोपगतस्य तु ॥
आतृतीयात्तथा वर्षात् सिद्धिं गूढस्य साक्षिणः ।
आ च संवत्सरात्सिद्धिं वदन्त्युत्तरसाक्षिणः" ॥

इति । तत्तु न नियमार्थम् । अत एवाह स एव--

"अथ वा कायनियमो न दृष्टस्साक्षिणं प्रति
स्मृत्यपेक्षं हि साक्षित्वमाहुश्शास्त्रविदो जनाः ।
यस्य नोपहता वृद्धिः स्मृतितन्त्रेषु साक्षिणः
सुदीर्घेणापि कालेन स साक्षी साक्ष्यमर्हति" ॥

इति । तत्र निर्दुष्टास्साक्षिणस्सन्ति चेन्निर्देष्टव्याः सदोषेषु साक्षिषु दूषयितव्या इत्याह बृहस्पतिः--

"साक्षिणोऽर्थिसमुद्दिष्टान् सत्सु दोषेषु दूषयेत् ।
अदुष्टान् दूषयन्वादी तत्समं दण्डमर्हति ॥

तत्समो दुष्टसाक्षिदण्डसमः । दोषास्तु विवादकाल एव वक्तव्याः नान्यत्रेथेत्याह कात्यायनः--

"लेख्यदोषास्तु ये केचित् साक्षिणां चैव ये स्मृताः ।
वादकाले तु वक्तव्या पश्चादुक्तं न दूषयेत्" ॥

न दूषयेदित्यनेन दण्डाभावोऽपि प्रतिपादितः । यत आह स एव--