पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
141
व्यवहारकाण्डः

 यत्तु विज्ञानयोगिनोक्तं यत्र तु मुमूर्षुणा स्वस्थेन वा पित्रा पुत्रादयः श्राविताः 'अमी साक्षिण' इति अत्र मृतान्तरोऽपि साक्षी" । यथाऽऽह नारदः--

"मृतान्तरोऽर्थिनि प्रेते मुमूर्षुश्रावितो दृढः" ॥

इति । तत्तु श्रावितस्य साक्षित्वं नापगतमित्येवं परम् । न पुनर्मृतान्तरस्यापि साक्षित्वविधानार्थमित्यवगन्तव्यम् । मृतान्तरस्य साक्षित्वासंभवात् । ननु भेदादसाक्षिण इत्यनुपपन्नम् । 'साक्षिद्वैधे बहूनां वा गुणवत्तमानां वा वचनं ग्राह्यम्' इति विष्णुस्मरणात् । समसङ्ख्यानां वा समगुणानां वा द्वैधे युक्तिसध्रीचीनं वचनं ग्राह्यमित्यर्थादुक्तं भवतीति निबन्धनकारवचनादिति चेन्मैवम् । बहवस्साक्षिणो मिळित्वा साक्ष्यभावमेकस्मिन् निवेश्य संसदि अनेन यदुक्तं तदस्माकं संमतमित्यवोचन्; तदाऽसावेकोऽपि विसंवादी, सर्वे ते साक्षिणो विसंवादिन इत्येवं परं वचनमिति न कश्चिद्विरोधः ।

साक्षिविभागादि.

 साक्षी तु द्विविधः-- दर्शनश्रवणभेदात् । यथाऽऽह पितामहः--

"समक्षदर्शनात्साक्ष्यं श्रवणाच्चैव सिध्यति" ।

इति । स च द्विविधः कृताकृतभेदात् । अकृतष्षड्विधः यथाऽऽह नारदः--

"ग्रामश्च प्राड्विवाकश्च राजा च व्यवहारिणाम् ।
कार्येष्वधिकृतो यस्स्यादर्थिना प्रहितश्च यः ॥
कुल्याः कुलविवादेषु विज्ञेयास्तेऽपि साक्षिणः" ॥