पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
115
व्यवहारकाण्डः

गमकपरः । अत्र पत्रस्य पञ्चारूढत्वे पुरुषमात्रं न निमित्तं, अपि तु तद्गतगमकत्वं, अतश्चेतरप्रमाणापेक्षया पत्रस्य प्राबल्यसिद्धिः । किंच साक्षिसङ्ख्याधिक्ये त्वयं व्यवहारो गौण इत्यसमञ्जसम् । षडादिसङ्ख्याविशिष्टसाक्षिमत्पत्रस्थलेऽपि शते पञ्चाशन्न्यायेन मुख्यतायां गौणत्वाङ्गीकारोक्तेरयुक्तत्वात् । केचित्तु तन्मतानुवर्तिन एवं तत्परिहारमाहुः-- एकोऽप्युभयसंमत इति वचनात् श्रुताध्ययनसंपन्नस्य तस्य वादिनोऽप्येकस्यैव साक्षित्वाङ्गीकारात् । पुरुषचतुष्टयारूढत्वे पञ्चारूढत्वोक्तिर्गौणीति । तत्तु पूर्वापरविरुद्धाभिधानमित्यनादर्तव्यम् । तथापि पूर्वोक्तदोषदुष्टत्वादस्मदुक्तप्रकार एव सम्यक् । नारदस्तु विशेषमाह--

"अलिपिज्ञो ऋणी यस्स्यात् लेखयेत्स्वमतं तु सः ।
साक्षिणा साक्षिणोऽन्येन सर्वसाक्षिसमन्वितः ।
विजातीयलिपिज्ञोऽपि स्वयमेव लिखेत् पदम्" ॥

पदमिति स्वसङ्केतमित्यर्थः । तदनन्तरकृत्यं याज्ञवल्क्य आह--

"उभयाभ्यर्थितेनैतन्मयाऽप्यमुकसूनुना ।
लिखितं ह्यमुकेनेति लेखकस्त्वन्ततो लिखेत्"

व्यासोऽपि--

"मयोभयाभ्यर्थितेनाऽमुकेनाऽमुकसूनुना ।
स्वहस्तयुक्तं स्वं नाम लेखकोऽन्ते ततो लिखेत्" ॥
एवं जानपदे लेख्ये व्यासेनाभिहितो विधिः" ॥

इति ।

लेख्यमष्टविधं.

 एतज्जानपदं लेख्यं अष्टविधम् । विभागपत्र, दानपत्र,