पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
111
व्यवहारकाण्डः

क्रियास्वरूपभेदौ.

क्रियायाः भेदमाह व्यासः--

"कार्यं तु साध्यमित्युक्तं साधनं तु क्रियोच्यते ।
द्विविधा सा पुनर्ज्ञेया मानुषी दैविकी तथा" ॥

बृहस्पतिस्तु--

"द्विप्रकारा क्रिया प्रोक्ता मानुषी दैविकी तथा ।
एकैकाऽनेकधा भिन्ना मुनिभिस्तत्ववेदिभिः" ॥

कात्यायनोऽपि--

"पञ्चप्रकारं दैवं स्यात् मानुषं त्रिविधं स्मृतम्" ॥

इति । अत्र पञ्चप्रकारमिति न नियम्यते । तण्डुलतप्तमाषादिविधानान्तरस्यापि स्मृत्यन्तरे दर्शनात्, त्रिविधमिति तु नियमार्थं, स्मृत्यन्तरविरोधात् ।

"लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् " ॥

इति । नारदोक्तेः--

"लिखितं साक्षिणश्चात्र द्वौ विधी परिकीर्तितौ"

इत्युक्तम्; लिखितसाक्षिणोः भुक्तितो गरीयस्त्वाभिप्रायं वेदितव्यम् ।

लेख्यनिरूपणम्.

लिखितस्य द्वैविध्यमाह सङ्ग्रहकारः--

"राजकीयं जानपदं लिखितं द्विविधं स्मृतम्" ।

राजकीयं पञ्चविधम्.

 "राजकीयं शासनजयपत्राज्ञापत्रप्रसादलेख्यभेदात्पञ्चविधम् । शासनं नाम यत्र भूम्यादिकं निबन्धं वा दत्वा