पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
107
व्यवहारकाण्डः

एकदेशे मानुषसंभवे एकदेशविभावितन्यायेन विशेषणांशसिद्धिः । यद्वा अल्पशपथेनापि कार्येत्यभिप्रायः ।

"यद्येको मानुषीं ब्रूयादन्यो ब्रूयात्तु दैविकीम् ।
मानुषीं तत्र गृह्णीयात् न तु दैवीं क्रियां नृपः ॥
स्वल्पाऽपि मानुषी यत्र दैवीं तत्र न कल्पयेत् ॥"

इति । अतस्सर्वथा मानुषासंभवे दिव्यमित्युत्सर्गः । क्वचिदस्यापवादमाह स एव--

"प्रक्रान्ते साहसे वादे पारुष्ये दण्डवचिके ।
बलोद्भवेषु कार्येषु साक्षिणो दिव्यमेव वा ॥"

ऋणादानादिषु विशेषमाह स एव--

"ऋणे लेख्यं साक्षिणो वा युक्तिलेशादयोऽपि वा ।
दैविकी च क्रिया प्रोक्ता प्रजानां हितकाम्यया ॥
प्रमाणैर्हेतुना वाऽपि दिव्येनैव तु निश्चयः ।
सर्वेष्वर्थविवादेषु सदा कुर्यान्नराधिपः ॥
लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् ।
अनुमानं विदुर्हेतुं तर्कं चैव मनीषिणः" ॥

इति । एवं दृष्टप्रमाणेनासिद्धौ अदृष्टप्रमाणमाश्रयणीयम्, नान्यथेति तात्पर्यार्थः । क्वचिदपवादमाह बृहस्पतिः--

"प्रथमे वा तृतीये वा प्रमाणं दैवमानुषम् ।
उत्तरे स्याच्चतुर्थे तु स साक्षिजयपत्रकम् ॥

 मिथ्यासंप्रतिपत्तिप्रत्यवस्कन्दप्राङ्न्यायरूपचतुर्विधोत्तरेषु प्रथमे मिथ्योत्तरे तृतीये कारणोत्तरे दैविकी मानुषी च क्रिया