पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
101
व्यवहारकाण्डः

इति, उच्यते, 'यथाऽऽवेदित मर्थिना' इत्यनेन आवेदनसमये यद्वस्तु निवेदितं तदेव भाषासमयेऽपि लेखनीयम् । एतस्मिन् पदे वस्त्वन्तरं नेत्युक्तं । यथा अनेन रूपकशतं वृद्ध्या गृहीतमित्यावेदनसमये प्रतिपाद्य प्रत्यर्थिसन्निधौ भाषासमये वस्तुशतं वृद्ध्या गृहीतमिति न वक्तव्यम् । तथा सति पदान्तरागमनेऽपि वस्त्वन्तरगमनाद्धीनवादी दण्ड्यस्स्यादिति । यत्र तु रूपकशतं वृद्ध्या गृहीत्वा अयं न प्रयच्छतीत्यावेदनकालेऽभिधाय भाषाकाले रूपकशतं बलादपहृतवानिति वदति, तदा साहसादिपदान्तरगमकं "नोक्तं विप्रकृतं नयेत्" इत्यनेनोक्तमिति न पौनरुक्त्यम् । एतदेव स्पष्टीकृतं नारदेन--

"पूर्ववादं परित्यज्य योऽन्यमालम्बते पुनः ।
पदसङ्क्रमणात् ज्ञेयो हीनवादी स वै नरः" ॥

इति । अत्रापवादमाह स एव ।

"कुर्यात्प्रत्यभियोगं तु कलहे साहसेषु च" ॥

इति । प्रत्यपराधसंभव इति शेषः । कलहे पारुष्यद्वय इत्यर्थः ।

पञ्चविधा हीनवादिनः.

नारदस्तु हीनवादित्वं पञ्चधेत्याह--

"अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः ।
आहूतव्यपवायी च हीनः पञ्चविधः स्मृतः" ॥

इति । अन्यवादी-- अन्यथावादी, तथा हीनस्य लक्षणमाह--

"पूर्ववादं परित्यज्य योऽन्यमालम्बते पुनः ।
पदसङ्क्रमणाङ्ज्ञेयो हीनवादी स वै नरः" ॥