पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
97
व्यवहारकाण्डः

वचने मिथ्याकारणयोः उदाहरणमात्रत्वात् । यत्र पुनः वादिप्रतिवादिनां त्रैवर्णिकत्वं तत्र वर्णानुक्रमेण गौरवापेक्षया व्यवहारो निर्णेतव्यः । तथाच हारीतः--

"वर्णिनां सङ्करो यत्र ब्राह्मणादिक्रमेण तु ।
व्यवहारस्तु निर्णेयो गौरवापेक्षया भवेत् ॥"

इति । गौरवापेक्षया ब्राह्मणादिक्रमेण, ब्राह्मणक्षत्रिययोर्विवादे ब्राह्मणस्याल्पतरं साध्यम्, क्षत्रियस्य बहुतरम्, तथाऽपि र्वणगौरवापेक्षया अल्पीयस्साध्यमेव ग्राह्यमिति वचनार्थः । यत्र पुनस्सङ्करोत्तरे तुल्यबलतया न पूर्वोक्तक्रमहेतुरस्ति तत्राप्यैच्छिकक्रमेणोत्तरं ग्राह्यम्, निर्णयस्यावश्यकत्वात् । तथाहि-- प्राङ्न्यायसङ्करे तदुभयनिर्णयकजयपत्रादिलिखितसाक्ष्यादिसंभवे व्यवहारनिर्णये प्रत्यर्थिनाऽन्यतरपक्षमवलम्ब्य स्थातव्यम्, नोभयमिति यथारुचि शब्दस्यार्थः । एवं चन्द्रिकायामपि प्रत्यवस्कन्दप्राङ्न्यायसङ्कुरे प्रत्यर्थिना यथारुचि स्थीयतामित्यत्र यथारुचि शब्दार्थोऽनुसन्धेयः । नन्वेवं संप्रतिपत्त्युत्तरस्य पक्षोपमर्दकत्वाभावादनुत्तरत्वमिति चेत्, मैवम्, संप्रतिपत्तेरपि साध्यत्वेन उपदिष्टस्य पक्षस्य सिद्धत्वेन उपन्याससाध्यत्वनिराकरणादेवोत्तरत्वमिति । ननु कारणमिथ्योत्तरे तु पूर्वोक्तन्यायप्रसरः । "इयं गौर्मदीया अमुकस्मिन् काले नष्टा अस्य गृहे दृष्टा इति" शृङ्गग्राहिकया वदति । अन्यस्तु "मिथ्यैतत् एतत्प्रदर्शितकालात्पूर्वमेव स्थिता मद्गृहे जाता च" इति वदति । इदं तावत्पक्षनिराकरणसमर्थत्वान्नानुत्तरम् । नापि मिथ्यैव, कारणोपन्यासात् । नापि कारणम्, एकदेशस्यास्युपगमा

 S.VILASA.
13