पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
95
व्यवहारकाण्डः

इत्यादि । व्याख्यागम्यं-- स्वरूपतो दुरवबोधम् । काकदन्तसद्भावोत्तरवन्निष्प्रयोजनमसारवदित्यर्थः । एकस्यां भाषायां वदत्यसत्यं मिथ्येत्याद्यनेकोत्तरमनुत्तरमिति । यथाऽऽह नारदः--

"पक्षैकदेशे यत्सत्यमेकदेशे च कारणम् ।
मिथ्या चैवैकदेशे च सङ्करात्तदनुत्तरम् ॥"

उत्तराणां साङ्कर्ये अनुत्तरं नान्यथेति ज्ञापनार्थं सङ्करादिति हेतुप्रयोगः ।

"न चैकस्मिन् विवादे तु क्रिया स्याद्वादिनोर्द्वयोः ।
न चात्र सिद्धिरुभयोः न चैकत्र क्रियाद्वयम् ॥"

इति कात्यायनोक्तेः । मिथ्याकारणयोस्सङ्करे अर्थिप्रत्यर्थिनोर्द्वयोरपि क्रिया प्राप्नोति ।

"मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनि "

इति स्मरणात् । तदुभयमेकस्मिन् व्यवहारे विरुद्धम् । यथा-- रूपपकशतं सुवर्णं चानेन गृहीतमित्यभियोगे रूपकशतं न गृहीतं सुवर्णं च गृहीतं प्रतिदत्तं चेति । कारणप्राङ्न्यायसङ्करे तु-- प्रत्यर्थिन एव क्रियाद्वयम् ।

"प्राङ्न्यायप्रत्यवस्कन्दे प्रत्यर्थी निर्दिशेत् क्रियाम्"

इति । यथा-- सुवर्णं प्रतिदत्तं रूपकशते व्यवहारमार्गेण पराजित इति । अत्र प्राङ्न्याये जयपत्रेण वा प्राङ्न्यायदर्शिभिर्भावयितव्यम् । कारणोत्तरे तु साक्षिलेखकादिभिर्भावयितव्यमित्यविरोधः । एवमुत्तरत्रितयसङ्करेऽपि द्रष्टव्यम् । यथाऽनेन सुवर्णं रूपकशतं वस्त्राणि च गृहीतानीत्यभियोगे सत्यं सुवर्णं गृहीतं प्रतिदास्यामि रूपकशतं तु न गृहीतं वस्तुविषये पूर्वन्यायेन