पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/११६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
85
व्यवहारकाण्डः

रुचि स्वीकार्यम् । आदिशब्देन द्रव्यतत्सङ्ख्यास्थानवेलाक्षमालिङ्गादीनि गृह्यन्ते ।

आवेदनपत्रलेखनक्रमः.

"अर्थवद्धर्मसंयुक्तं परिपूर्णमनाकुलम् ।
साध्यवद्वाचकपदं प्रकृतार्थानुबन्धि च ॥
प्रसिद्धमविरुद्धं च निश्चितं साधनक्रमम् ।
संक्षिप्तमन्वितार्थं च देशकालाविरोधि च ॥
वर्षर्तुमासपक्षाहर्वेलादेशप्रवेशवत् ।
स्थनावसथसाध्याख्याजात्याकारवयोयुतम् ॥
साध्यप्रमाणसङ्ख्यावदात्मप्रत्यर्थिनामवत् ।
परात्मपूर्वजानेकराजनामभिरङ्कितम् ॥
क्षमालिङ्गात्मपीडापत्कथिताहर्तृदायकम् ।
यदावेदयते राज्ञे तद्भाषेत्यभिधीयते ॥

इति । भाषा-प्रतिज्ञा-पक्ष इत्यनर्थान्तरम् । यद्यपि सर्वेषु व्यवहारेषु संवत्सरादिविशेषणं नोपयुज्यते । तथाऽप्याधिप्रतिग्रहक्रयेषु निर्णयार्थमुपयुज्यत इत्यदोषः । अर्थवत्-- प्रयोजनवत्, धर्मसंयुक्तं--अल्पाक्षरप्रगीतत्वादिगुणान्वितम् । परिपूर्णं-- अध्याहारानपेक्षम् । अनाकुलं-- असन्दिग्धाक्षरकं, साध्यवत्-- सिषाधयिषितार्थाहीनम्, वाचकपदं-- गौणलक्षणादिरहितम्, प्रकृतार्थानुबन्धि--प्रागविदितार्थाविरोधि, प्रसिद्धं-- लोकप्रसिद्धवस्तुविषयं । अविरुद्धम्-- पुरराष्ट्रप्राड्विवावाकनृपाद्यविरुद्धं, तथा पूर्वापराविरुद्धं प्रत्यक्षादिप्रमाणाविरुद्धं व्यावहारिकधर्माविरुद्धं